________________
त्रिषष्टिशलाकापुरुषचरिते
॥४७॥
अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
द्वादशाब्दसहस्राणि तपस्तेपे स दुस्तपम् । विहितानशनश्चांते निजं दौर्भाग्यमस्मरत् ।। ४८ ।। तपसानेन भूयासं रमणीजनवल्लभः । एवं निदानं कृत्वा स महाशुने सुरोऽभवत् ।। ४९ ।। ततश्च्युत्वा नंदिषेणस्तव सूनुरभूदसौ । वसुदेवस्तन्निदानाद्रमणीनां मनोहरः ।। ५० ॥ ततो राज्येऽन्धकवृष्णिः समुद्रविजयं न्यधात् । स्वयं तु सुप्रतिष्ठांते प्रव्रज्य प्रययौ शिवम् ।। ५१ ।। प्रावाजीभोजवृष्णिश्च मथुरायां ततोऽभवत् । उग्रसेनो नृपस्तस्य महिषी धारिणी पुनः ।। ५२ ।। उग्रसेनोऽन्यदा गच्छत् बहिः कमपि तापसम् । स्थितं क्वापि रहोदेशेऽद्राक्षीन्मासोपवासिनम् ।। ५३ ॥ तस्य चैषोऽभिग्रहोऽभून्मासोपवासपारणम् । करिष्याम्येकवेश्मात्तभिक्षया नान्यथा पुनः ।। ५४ ।। मासे मासे पारणं स कृत्वैकगृहभिक्षया । रहःप्रदेशं तमगान्न पुनः सदनान्तरे ॥ ५५ ।। पारणायोग्रसेनस्तं निमंत्र्य प्रययौ गृहम् । अन्वागात्तापसः सोऽपि विस्मृतश्च महीपतेः ।। ५६ ।। अभुक्त एव स मुनिर्निजमेवाश्रमं ययौ । तथैव मासक्षमणं भूयोपि प्रत्यपद्यत ।। ५७ ॥ कथंचित्तत्र चायातो राजापश्यत् पुनश्च तम् । स्मृत्वा निमंत्रणं तच्च क्षमयामास चाटुभिः ।। ५८ ।। पुनर्निमंत्रयामास विसस्मार पुनस्तथा । आगत्याभुक्त एव स्वं स्थानं स पुनरभ्यगात् ।। ५९ ।। स्मृत्वा भूयोऽपि तं राजा क्षमयामास पूर्ववत् ।न्यमंत्रयत भूयोऽपि चुकोपाथ स तापसः ।।६०॥
कंसस्य पूर्वभवः ।
॥४७॥
१ बालान् ।