________________
त्रिषष्टिशलाकापुरुषचरिते
॥४६॥
अष्टम पर्व | द्वितीयः |सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
मुनेर्लब्धिमतस्तस्य प्रभावात्तद्विजृभितम् । न प्राभवत्ततः प्राप शुद्धं पानं स कुत्रचित् ।। ३५ ॥ जगाम नंदिषेणश्च ग्लानर्षेस्तस्य संनिधौ । स तेन मायामुनिना चुक्रुशे परुषाक्षरम् ।। ३६ ॥ अहमीदृगवस्थोऽस्मि त्वं तु भोजनलंपटः । न शीघ्रमागास्तद्धिक् ते वैयावृत्त्यप्रतिश्रवम् ॥३७॥ नदिषेणोऽप्यवोचत्तं सहस्वाग इदं मम । सज्जं त्वां विदधाम्येष इदं पानं तवोचितम् ।।३८ ॥ पाययित्वा स तं पानमुत्तिष्ठेति जगाद च । ग्लानोऽप्युवाच धिग्मुंड किं मां नाक्षममीक्षसे ।। ३९ ।। अथ मायामुनि स्कंधमारोप्य प्रचलंस्ततः । आचुक्रुशे नंदिषेणः स तेनैवं पदे पदे ॥ ४० ॥ अरे शीघ्रं व्रजन् किं मां दुनोष्यांदोलनैभृशम् । शनैः शनैर्गच्छ सत्यं वैयावृत्यं करोषि चेत् ॥ ४१ ॥ इत्युक्तोऽतिशनैः सोऽगात्तस्योपरि च सोऽमरः । वर्चश्चक्रेऽब्रवीच्चैवं वेगभंगं करोषि किम् ।। ४२ ॥ अयं महर्षिरुल्लाघः कथं स्यादिति चिन्तयन् । नाजीगणत्तद्वचासि नंदिषेणः कटून्यपि ।। ४३ ।। वर्थोऽपहत्याथ मुनौ पृष्पवृष्टिं व्यधान्मुदा । त्रिस्तं प्रदक्षिणीकृत्य दिव्यरुपोऽनमच्च सः ॥४४ ।। तां प्रशंसां शक्रकृतां तस्मै देवः शशंस सः । क्षमयित्वा तुभ्यमहं किं ददामीत्युवाच च ॥ ४५ ॥ ऊचे मुनिर्मया लब्धो धर्मः परमदुर्लभः । सारं नातः परं किंचिदिह त्वत्तो यदर्थये ॥४६ ।। इत्युक्तो द्यां ययौ देवः स्वाश्रयं मुनिरप्यगात् । पृष्टश्च साधुभिः सर्वमनुत्सिक्तः शशंस सः ॥ ४७ ।। १ अपराधम् । २ विष्टयम् । ३ रोगरहितः । ४ गर्वरहितः ।
वसुदेवस्य पूर्वमवचरिते नदिषेणभवः ।
॥४६ ॥