________________
त्रिषष्टिशलाकापुरुषचरिते
॥४५॥
अष्टमं पर्व द्वितीयः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
श्रुत्वा द्वितीयपुत्र्यापि तद्वच्चक्रे प्रतिश्रवः । अन्यपुत्रीभिरप्येवं प्रतिषिद्धः क्रमेण सः ।। २२ ।। ततस्तं मातुलोऽवोचत् पुत्रीमन्यस्य कस्यचित् । याचित्वा ते प्रदास्यामि वत्स मा भूस्त्वमाकुलः ॥ २३ ॥ नंदिषेणस्ततो दध्यौ निजा नेप्सति माममूः । ईप्सिष्यति कथं त्वन्यकन्या मां रुपदूषितम् ।। २४ ।। इति निःसत्य वैराग्याद्ययौ रत्नपुरे पुरे । दंपतीन् क्रीडतस्तत्र निरीक्ष्य स्वं निनिंद सः ।। २५ ।। मुमूर्षुः सोऽथ वैराग्याद्ययावुपवनान्तरे । सुस्थितं नाम तत्रर्षि ददर्श प्रणनाम च ।। २६ ॥ ज्ञात्वा ज्ञानेन तद्भावं स साधुस्तमवोचत ।मा मृत्युसाहसं कार्षीरधर्मस्य फलं ह्यदः ॥२७ ॥ कार्यः सुखार्थिना धर्म आत्मघातात्सुखं न हि । स तु प्रव्रज्यया धर्मः सुखहेतुर्भवे भवे ॥ २८ ॥ श्रुत्वैवं च प्रतिबुद्धस्तत्पादांतेऽग्रहीद्वतम् । गीतार्थश्चाभिजग्राह वैयावृत्यं स साधुषु ॥ २९ ॥ बालग्लानादिसाधूनां वैयावृत्त्यकरं च तम् । अनिर्विण्णं सभामध्ये प्रशशंस पुरंदरः ।। ३०॥ अश्रद्धच्छक्रवचो ग्लानसाधुवपुर्धरः । सुरो रत्नपुराभ्यारण्ये कोऽपि समाययौ ॥ ३१ ॥ द्वितीयसाधुवेषं च कृत्वा तद्वसतिं ययौ । कवले पारणायत्ते नंदिषेणं जगाद च ॥ ३२ ॥ वैयावृत्त्यं प्रतिज्ञाय कथं भो भोक्ष्यसेऽधुना । यद्बहिः क्षुत्तृषाक्रान्तो मुनिरस्त्यतिसारकी ।। ३३ ।। मुक्त्वान्नं पानमन्वेष्टुं नंदिषेणोऽथ निर्ययौ । अनेषणीयं तच्छक्त्या देवः कर्तुं प्रचक्रमे ।।३४ ॥ १ प्रतिज्ञा । २ निर्वेदरहितम् ।
वसुदेवस्य पूर्वभवचरिते नदिषेणभवः ।
॥ ४५ ॥