________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ४४ ॥
भोजवृष्णेर्मथुरायां राज्यं पालयतः सतः । उग्रसेनोऽभवत्सूनुरुदग्रभुजविक्रमः ॥ ९ ॥ जज्ञिरेऽन्धकवृष्णेश्च सुभद्रायां दशात्मजाः । समुद्रविजयोऽक्षोभ्यः स्तिमितः सागरोऽपि च ।। १० ।। हिमवानचलश्चैव धरणः पूरणस्तथा । अभिचंद्रो वसुदेवो दशार्हाख्या दशापि ते ।। ११ ।। ।। युग्मम् ॥ तेषामभूतामनुजे कुंती मद्री च नामतः । पांडवेऽदात् पिता कुंतीं दमघोषाय चापराम् ।। १२ ।। अन्येद्युरंधकवृष्णिरवधिज्ञानिनं मुनिम् । सुप्रतिष्ठं प्रणम्यैवमपृच्छ्द्रचितांजलिः ॥ १३ ॥ स्वामिन्सूनुर्मे दशमो वसुदेवोऽभिधानतः । अत्यंतरुपसौभाग्यः कलावान् विक्रमी च किम् ॥ १४ ॥ आख्यच्च सुप्रतिष्ठर्षिरासीन्मगधमंडले । नंदिग्रामे द्विजो रोरस्तस्य भार्या च सोमिला ।। १५ । नंदिषेणस्तयोः सूनुर्बालस्यापि हि तस्य तु । पितरौ तौ विपेदाते मंदभाग्यशिरोमणेः ॥ १६ ॥ तुंदिलो दंतुरश्चुल्लश्चतुरस्रशिरास्तथा । कुरुपोऽन्येषु चांगेषु सोऽत्याजि स्वजनैरपि ।। १७ ।। जीवन्मूल्येनापरेद्युर्जगृहे मातुलेन सः । मातुलस्य तु तस्यासन्नुद्वाह्याः सप्त कन्यकाः ॥ १८ ॥ एकां दास्यामि ते कन्यामित्यूचे मातुलश्च तम् । तद्वेश्मकर्म तल्लोभादशेषं च चकार सः ।। १९ ।। तत्राद्या यौवना कन्या तज्ज्ञात्वोवाच मां यदि । प्रदास्यति पितामुष्मै तन्मरिष्यामि निश्चितम् ॥ २० ॥ शुश्राव नंदिषेणस्तद्विषण्णो मातुलेन तु । ऊचे सुतां द्वितीयां ते दास्ये मा खेदमुद्वह ।। २१ ।। १ बृहदुदरवान् । २ कुनेत्रः ।
अष्टमं पर्व द्वितीयः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
30
वसुदेवस्य पूर्वभवचरिते नदिषेणभवः ।
1188 11