SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ (द्वितीयः सर्गः ।) त्रिषष्टिशलाकापुरुषचरिते ।।४३॥ अष्टमं पर्व द्वितीयः सर्गः श्रीअरिष्टनेमिजिन चरितम् । इतश्च भरतेऽत्रास्ति मथुरेति वरा पुरी । नद्या यमुनया नीलसंव्यानेनेव शोभिता ।। १ ।। तस्यां पुर्यां हरिवंश्याद्वसुपुत्राबृहद्ध्वजात् । गतेषु भूयःसु नृपेष्वभून्नाम्ना यदुनृपः ।। २ ॥ यदोरथाभवत्सूनुः शूरः शूरसमद्युतिः । शूरस्यापि सुतौ शौरिसुवीरौ वीरकुंजरौ ।।३।। शौरि राज्ये यौवराज्ये सुवीरं न्यस्य शूरराट् । जातसंसारवैराग्यः परिव्रज्यामुपाददे ।। ४ ।। शौरिस्तु मथुराराज्यं सुवीरायानुजन्मने । दत्वा कुशार्तदेशेऽगात्तत्र शौर्यपुरंन्यधात् ॥ ५ ॥ सूनवोऽन्धकवृष्ण्याद्या जज्ञिरे शौरिभूभुजः । सुवीरस्य पुनर्भोजवृष्ण्याद्या अमितौजसः ॥६॥ सुवीरो मथुराराज्यं दत्वा भोजकवृष्णये । पुरं सिंधुषु सौवीरं निधायास्थान्महाभुजः ॥७॥ निधायान्धकवृष्णि स्वे राज्ये शौरिर्महाभुजः । सुप्रतिष्ठमुनेः पार्श्वे प्रव्रज्य प्रययौ शिवम् ।।८॥ | यदुवंशोत्पत्तिः । १श्यामवस्त्रेण ।२ सूर्यसमकातिः । ॥४३॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy