SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥४२॥ तथाप्यस्यां यशोमत्यां ममत्वं मेऽधिकं कुतः । प्रसीदाख्याहि सर्वज्ञानभिज्ञमनुशाधि माम् ।। ५२५ ।। केवल्याख्यद्धनभवे पत्नी ते धनवत्यसौ । सौधर्मे च सुहृच्चित्रगते रत्नवती प्रिया ॥ ५२६ ॥ माहेन्द्रे च सुहृद्भार्या त्वपराजितजन्मनि । इयं प्रीतिमती कल्पे वारणे ते सुहृत्सुरः ।। ५२७ ॥ सप्तमेऽस्मिन् भवे भार्या भूयस्तेऽभूद्यशोमती । तेनास्यां स्नेहसंबन्धो भवान्तरभवस्तव ।। ५२८ ॥ इतोऽपराजिते गत्वा च्युत्वा वर्षेऽत्र भारते । द्वाविंशस्तीर्थनाथस्त्वं नेमिनाथो भविष्यसि ।। ५२९ ॥ इयं राजीमती नाम त्वयानूढानुरागिणी । त्वत्पात्तिपरिव्रज्यां व्रजिष्यति परं पदम् ।। ५३० ॥ यशोधरगुणधरौ भ्रातरौ प्राग्भवेषु ते । मंत्री मतिप्रभश्चैते सेत्स्यंत्याप्य गणेशताम् ।। ५३१ ॥ पुंडरीकं सुतं राज्ये न्यस्य शंखोऽग्रहीद्वतम् । तत्पार्वे सह बन्धुभ्यां यशोमत्याथ मंत्रिणा ।। ५३२ ॥ गीतार्थोऽभूक्रमाच्छंखस्तपस्तेपे च दुस्तपम् । अर्हद्भक्त्यादिभिः स्थानैस्तीर्थकृत्कर्म चार्जयत् ।।५३३ ॥ पादपोपगमनं स विधायान्तेऽपराजितमगान्मुनिशंखः । तेऽपि तेन विधिनैव यशोमत्यादयोऽयुरपराजितमेव ।। ५३४ ।। अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । शंखस्य दीक्षा, तीर्थकृत्रामकर्मार्जनम् स्वर्गगमनं च। इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरित्रे महाकाव्येऽष्टमे पर्वणि श्रीअरिष्टनेमिपूर्वभववर्णनो नाम प्रथमः सर्गः । ॥ ४२ ॥ १ प्राप्य । २ गणधरत्वम् । * अपरिणीता + सिद्धाः भविष्यन्ति ।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy