________________
त्रिषष्टिशलाकापुरुषचरिते ॥४०॥
सर्गः
पूर्वभव
ततः खिन्नान्निषण्णाच्च खेचराद्धनुराच्छिदत् । कुमारस्तच्छरेणैव तं विव्याध च वक्षसि ।। ४९९ ॥ अष्टम पर्व
प्रथमः मूर्च्छितः सोऽपतत् पृथ्व्यां छिन्नमूल इव द्रुमः । शंखो वातादिना सज्जीकृत्याह्नत युधे पुनः ।। ५०० ॥3 उवाच खेचरेंद्रस्तमनिर्जितवरो ह्यहम् । निर्जितोऽस्मि त्वया दोष्मन्न सामान्योऽसि सर्वथा ।। ५०१ ।। | श्रीअरिष्टइयं यथा त्वया वीर गुणक्रीता यशोमती । तथा पराक्रमक्रीतोऽस्म्यपराधं सहस्व मे ।। ५०२ ॥
नेमिजिनकुमारोऽप्यब्रवीत्ते दोर्वीर्येण विनयेन च । रंजितोऽस्मि महाभाग ब्रूहि किं करवाणि ते ।। ५०३ ।।
चरितम् । सोऽप्यूचे चेत्प्रसन्नोऽसि वैताळ्ये तर्हि गम्यताम् । सिद्धायतनयात्रा ते मम च स्यादनुग्रहः ।। ५०४ ॥ शंखोऽनुमेने तद्वाचं मुमुदे च यशोमती । एवंविधो मया ववे वर इत्युत्थसन्मनाः ।। ५०५ ॥
चरिते खेचराश्च तदाभ्येयुर्मणिशेखरपत्तयः । ज्ञातोदन्ता नमश्चक्रुः कुमारमुपकारिणम् ।। ५०६ ॥ प्रेष्य द्वौ खेचरौ सैन्ये स्ववृत्तान्तमजिज्ञपत् । कुमारः प्राहिणोच्चाशु तत्सैन्यं हस्तिनापुरे ।। ५०७ ॥
शंखभवः । तां च धात्री यशोमत्यास्तत्रानाय्य नभश्चरैः । धात्रीयशोमतीयुक्तः शंखो वैताढ्यमभ्यगात् ।। ५०८ ॥ तत्र सिद्धायतनेषु ववन्दे शाश्वतार्हतः । चक्रे च विविधाः पूजा यशोमत्या सहैव सः ॥५०९ ।। निन्ये च कनकपुरे कुमारं मणिशेखरः । देवतामिव चान!पवेश्य निजवेश्मनि ।। ५१० ॥
। ४०॥ वैताठ्यवासिनः सर्वेऽप्याश्चर्यमिव चागतम् । एत्य शंखयशोमत्यौ भूयो भूयो व्यलोकयन् ।। ५११ ॥ १ उत्थमुत्पन्नं सन्मनो यस्याः सा ।२ ज्ञातवृत्तांताः । * युद्धाय ।
सप्तमः