________________
त्रिषष्टिशलाकापुरुषचरिते
॥३९॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
नेच्छत्येषा विना शंखमित्यूचे तं जितारिराट् । ततोऽन्येधुरहार्षीत्तां स विद्याधरपांसनः ।।४८६ ।। अहं तु धात्रिका तस्यास्तद्दोर्लग्ना समागता । इहोज्जिता तेन दुष्टखेचरेण बलादपि ।। ४८७ ॥ संसारसारभूतां तां बाला कुत्रापि सोऽनयत् । तेनाहं विलपाम्येवं जीविष्यति कथं हि सा ॥४८८ ॥ धीराभवानयाम्येष तां कुमारी विजित्य तम् । इत्युक्त्वान्वेष्टुमारेभे कुमारोऽटन्महाटवीम् ।। ४८९ ।। अत्रांतरे च चंडांशुरारुरोहोदयाचलम् । विशालश्रृंगमचलं कुमारोऽप्याससाद सः ॥ ४९० ।। एकस्मिन् गहवरे तस्य तां सोऽपश्यद्यशोमतीम् । विवाहायार्थयन्तं च खेचरं ब्रुवतीमिति ।। ४९१ ॥ शंखोज्ज्वलगुणः शंखो भर्ता मे नापरः पुनः । अप्रार्थितप्रार्थक रे संखेदयसि किं मुधा ।। ४९२ ।। ताभ्यां दृष्टः कुमारोऽपि हृष्टश्चोवाच खेचरः । कालाकृष्टोऽयमायातस्त्वप्रियो मद्वशं जडे ।। ४९३ ।। अमुं त्वदाशया सार्धं हत्वा बाले बलादपि । एष त्वां परिणेष्यामि नेष्यामि च निजौकसि ।। ४९४ ।। इत्युक्तवन्तं तं शंखोऽप्युवाचोत्तिष्ठ पाप रे । परनारीहर हराम्येष खड्गेन ते शिरः ।। ४९५ ॥ उद्यतासी ततश्चोभौ युयुधाते महाभुजौ । वल्गन्तौ चारुचारीभिः कंपयन्ताविवाचलम् ॥ ४९६ ।। कुमारं दोर्बलाज्जेतुं नाशकत्स यदा तदा । तप्तायोगोलमुख्यास्त्रैर्युयुधे विद्यया कृतैः ।। ४९७ ।। पुण्योत्कर्षात् कुमारस्य कानिचित् प्राभवन्न हि । कुमारः खंडयामास खड्गेनास्त्राणि कानिचित् ।। ४९८ ॥ १ विद्याघराघमः ।
| पूर्वभवचरिते सप्तमः शंखभवः ।
॥३९॥