________________
त्रिषष्टिशलाकापुरुषचरिते
॥३८॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
इतश्च दुर्गवप्रस्थै राजसैन्यैरघाति सः । इतः कुमारसैन्यैश्च पल्लीनाथोऽन्तरा स्थितः ।। ४७३ ।। कंठे कुठारं स क्षिप्त्वा कुमारं शरणं ययौ । ऊचे च मायामंत्राणां प्रतिकर्ता त्वमेव मे ।। ४७४ ।। स्वामिन् दासीभविष्यामि सिद्धो भूत इवैष ते । सर्वं मम गृहाणेदं प्रसत्त्यानुगृहाण माम् ।। ४७५ ।। ततः कुमारस्तेनात्तं लोप्नं यद्यस्य तस्य तत् । सर्वं समार्पयत्तस्माइंडं च स्वयमग्रहीत् ।। ४७६ ॥ पल्लीपतिं तमादाय कुमारोऽपि न्यवर्तत । पथि सायमवात्सीच्च स्कंधावारं निवेश्य सः ।। ४७७ ।। सोऽथार्धरात्रे तल्पस्थः शुश्राव करुणस्वरम् । ययौ चासिंसखा तस्य स्वरस्यैवानुसारतः ।। ४७८ ।। ददर्श चाग्रे रुदतीं महिलामर्धवार्द्धकाम् । ऊचे च मृदु मा रोदी—हि दुःखस्य कारणम् ।। ४७९ ।। तस्य मूर्त्या च वाचा च लब्धाश्वासा जगाद सा । अस्त्यंगदेशे चंपायां जितारिर्नाम भूपतिः ।। ४८० ॥ तस्य कीर्तिमतीपल्यां पश्चाद्बह्वात्मजन्मनाम् । जाता यशोमती नाम सुतास्ति स्त्रीशिरोमणिः ।। ४८१ ।। स्वानुरुपं वरं तस्या अपश्यंत्या मनागपि । अरोचकिन्या नो रेमे दृष्टिः कुत्रापि पूरुषे ।। ४८२ ।। कदाप्यगात्कर्णपथं शंखः श्रीषेणनंदनः । तस्याश्चक्रे हृदि पदं युगपन्मन्मथोऽपि च ।। ४८३ ॥ मां शंख एवोद्वोढेति प्रत्यज्ञासीद्यशोमती । स्थानेऽनुरक्तेयमिति मुमुदे चापि तत्पिता ।। ४८४ ।। यावत्तदर्थे श्रीषेणांतिके प्रैषीन्नरान्नृपः । तावद्ययाचे तां विद्याधरेन्द्रो मणिशेखरः ।। ४८५ ।। १ प्रसादेन । २ चौर्येणानीतं धनं लोत्रम् ३ खड्गसहायः । ४ अर्द्धजरतीम् । ५ बहूनां पुत्राणां पश्चात् ६ युगपत् कामः अपि स्थानं चक्रे ।
पूर्वभवचरिते सप्तमः शंखभवः ।
॥३८॥