________________
त्रिषष्टिशलाकापुरुषचरित
॥३७॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
सहपांशुक्रीडितश्च सहाध्यायी च सोऽभवत् । स्निग्धः शंखकुमारस्य मन्मथस्येव माधवः ।। ४६० ॥ स तेन सुहृदा सार्धं राजपुत्रैस्तथापरैः । नानाविधाभिः क्रीडाभिः क्रीडन् यौवनमासदत् ।। ४६१ ।। अथ श्रीषेणमन्येधुरुच्चैः पूत्कारकारिणः । एत्य विज्ञापयामासुर्दूराज्जानपदा जनाः ।। ४६२ ।। अस्ति त्वद्देशसीमायामत्यंतविषमोन्नतः । विशालश्रृंगोऽद्रिश्चन्द्रशिशिरासरितांकितः ।। ४६३ ।। तत्रास्ति दुर्गे समरकेतुः पल्लीपतिः स्थितः । अस्मॉल्लुंटति निःशंकस्तस्मात्रायस्व नः प्रभो ॥ ४६४ ।। तद्वधाय प्रतिष्ठासू राजा भंभामवीवदत् । नत्वा शंखकुमारस्तं सप्रश्रयमुवाच च ।। ४६५ ।। क एष स्वयमाक्षेपस्तत्र पल्लीशमात्रके । नेभः प्रहन्यान्मशके शशके च हरिः क्वचित् ।। ४६६ ।। त्वदाज्ञयाहं तं बद्ध्वा तातानेष्ये समादिश । स्वयं प्रयाणाद्विरम त्रपाकरमिदं हि वः ॥ ४६७ ॥ राज्ञापि तद्वचः श्रुत्वा तदैव सह सेनया । विसृष्टः शंखकुमारस्तां पल्ली निकषा ययौ ॥ ४६८ ॥ श्रुत्वा कुमारमायान्तं दुर्ग शून्यं विमुच्य सः । पल्लीशो गह्वरेऽन्यत्र प्राविशन्मायिनां वरः ॥ ४६९ ॥ कुशाग्रीयमतिः शंखकुमारो दुर्गपत्तने । एकं प्रवेशयामास सामन्तं सारसैनिकम् ।। ४७० ॥ स्वयं निकुंजे चैकस्मिन्निलीयास्थात्ससैनिकः । पल्लीपतिस्तु तं दुर्गं रुरोध च्छलकृत्सदा ।। ४७१ ।। क्व भोः कुमार यासीति यावत्तत्र जगर्ज सः । तावत्कुमारस्तं सैन्यैरवेष्टयदनेकशः ।। ४७२ ॥ १ चंद्रसमाना शिशिरा नाम नदी तयांकितः ।२ कुशाग्रबुद्धिः । * गन्तुं इच्छुः । + विनयेन सहितम् यथा स्यात् तथा ।
पूर्वभवचरिते सप्तमः शंखभवः ।
।।३७ ।।