________________
त्रिषष्टिशलाकापुरुषचरिते
॥३६॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
एवं महान्तं संवेगं धारयन्नपराजितः । जगाम स्वगृहं खिन्नस्तस्थौ चाहानि कत्यपि ॥ ४४७ ।। यः प्राक् कुंडपुरे दृष्टः केवली तत्र सोऽन्यदा । आगात्तस्योपकाराय योग्यं ज्ञानेन तं विदन् ।। ४४८ ।। श्रुत्वा धर्म च तत्पावें पुत्रं प्रीतिमतीभवम् । पद्मं निधाय राज्ये स्वे प्रावाजीदपराजितः ।। ४४९ ।।। सा च प्रिया प्रीतिमती सूरः सोमश्च बान्धवौ । मंत्री विमलबोधश्च सर्वेऽनुप्रावजस्तदा ।। ४५० ॥ ते सर्वेऽपि तपस्तप्त्वा मृत्वा कल्पेऽयुरारणे । इन्द्रसामानिकाः प्रीतिभाजोऽभूवन् परस्परम् ।। ४५१ ॥ इतश्च जंबूद्वीपेऽस्मिन् वर्षे च भरते पुरम् । इहास्ति हास्तिनपुरं कुरुमंडलमंडनम् ॥ ४५२ ॥ श्रीषेणस्तत्र राजाभूद्रजनीजानिसन्निभः । श्रीरिव श्रीमती नाम्ना महिषी तस्य चाभवत् ।। ४५३ ।। शंखावदातं पूर्णेन्दु सा विशन्तं मुखांबुजे । स्वप्नेऽपश्यन्निशाशेषे पत्ये चाख्यद्दिवामुखे ॥ ४५४ ।। नृपो निर्णीतवांस्तज्ज्ञैः स्वप्नेनानेन चन्द्रवत् । ध्वस्ताशेषद्विषद्ध्वांतो देव्याः सूनुर्भविष्यति ।। ४५५ ॥ इतोऽपराजितश्च्युत्वा तस्याः कुक्षाववातरत् । काले च सासूत सुतं पवित्रं सर्वलक्षणैः ॥ ४५६ ।। पिता तस्याकरोच्छंख इत्याख्यां पूर्वजाख्यया । धात्रीभिः पंचभिः सोऽथ लाल्यमानो व्यवर्धत ।। ४५७ ॥ साक्षिमात्रीकृत्य गुरुं लीलया चाददे कलाः । प्रतिजन्म समभ्यस्तास्तस्य सन्निहिता हि ताः ॥ ४५८ ॥ मतिप्रभो नाम गुणनिधिः श्रीषेणमंत्रिणः । सुतोऽभूद्विमलबोधजीवः प्रच्युत आरणात् ॥४५९ ॥ १ रजनीजानिश्चंद्रस्तत्संनिमः । २ शंखवदुज्ज्वलम् ।
अपराजितस्य दीक्षा, स्वर्गगमनम्, सप्तमः शंखभवश्च ।
॥३६॥