SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाका पुरुषचरिते ॥३५॥ अपराजितराजस्य महिषी प्रीतिमत्यभूत् । मंत्री विमलबोधश्च तौ बन्धू मंडलेश्वरौ ।। ४३५ ।। पुराप्याक्रान्तभूपालः पृथ्वीं सुखमपालयत् । भोगांश्चाभुक्त निर्विघ्नमपराजितभूपतिः ।। ४३६ । चैत्यानि च विचित्राणि रथयात्राश्च लक्षशः । कुर्वाणोऽगमयत्कालं स पुमर्थैरवंचितः ।। ४३७ ।। स गतोऽन्येद्युरुद्याने ददर्शेकं महर्द्धिकम् । मूर्त्यानंगमिवानंगदेवं सार्थपतेः सुतम् ॥ ४३८ ॥ तमावृतं सवयोभिर्दिव्यनेपथ्यधारिभिः । क्रीडन्तं रमणीयाभिः रमणीभिश्च भूरिशः ।। ४३९ ।। ददानमर्थिनामर्थं स्तूयमानं च बंदिभिः । गीतासक्तं प्रेक्ष्य राजापृच्छत्को ऽसाविति स्वकान् ।। ४४० ।। असौ समुद्रपालस्य सार्थवाहस्य नंदनः । महेभ्योऽनंगदेवाख्य इत्याख्यान् पार्थिवाय ते ।। ४४१ ।। धन्योऽस्मि यस्य वणिजोऽपीत्युदारा महर्द्धयः । एवं प्रशंसन्वेश्मागात् पुनरप्यपराजितः ।। ४४२ ॥ द्वितीयेऽह्नि बहिर्गच्छन्सोऽपश्यन्मृतकं व्रजन् । नृभिश्चतुर्भिरुत्क्षिप्तं रसद्विरसडिंडिमम् ।। ४४३ ।। अन्वीयमानं रामाभिराघ्नानाभिरुरःस्थलम् । मुक्तकेशं रुदन्तीभिर्मूर्च्छन्तीभिः पदे पदे ।। ४४४ ।। ॥ युग्मम् ॥ मृत इति राज्ञा पृष्टेऽशंसंश्च सेवकाः । स एवानंगदेवोऽयं द्राग्विसूचिकया मृतः ।। ४४५ ।। अहो असारः संसारो धिग्धिग्विश्वस्तधुग्विधिः । हा प्रमादः प्राणभाजां मोहनिद्रांधचेतसाम् ।। ४४६ ।। १ पुरुषार्थैः । २ मित्रैः | ३ विश्वस्तेभ्यो द्रुह्यतीति विश्वस्तधुक् । प्रहरन्तीभिः अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिन चरितम् । पूर्वभवचरिते पञ्चमोऽपराजितभवः । ।। ३५ ।।
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy