________________
त्रिषष्टिशलाकापुरुषचरिते
॥३३॥
अष्टमं पर्व | प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
एकोऽप्यनेकधा भूत इवाशनिरिवास्फुरत् । अभांक्षीद्विद्विषत्सैन्यमुन्मन्युरपराजितः ।। ४१० ।। स्त्रियापि प्राग्जिताः शास्त्रैः शस्त्रैकाकिनाधुना । इति हीणा नृपा योद्धं संभूयापि डुढौकिरे ।। ४११ ॥ अथ सोमप्रभस्येभमारुरोहापराजितः । तं चोपालक्षयत् सोमो लक्षणैस्तिलकेन च ।। ४१२ ॥ भुजोपपीडं तं सोमः परिरेभे महाभुजम् । दिष्ट्या ज्ञातोऽसि जामेयामेयवीर्येत्युवाच च ।। ४१३ ॥ आख्यच्च राज्ञां सर्वेषां ते सर्वे व्यरमन् रणात् । तैरेव स्वजनीभूतैरध्यास्युद्वाहमंडपः ।। ४१४ ।। ततोऽपराजितप्रीतिमत्योरन्योऽन्यरक्तयोः । चक्रे विवाहं पुण्येऽह्नि भूभुजा जितशत्रुणा ॥ ४१५ ।। चक्रे नैसर्गिक रुपं मनोज्ञमपराजितः । विक्रमेण च रुपेण तस्यारंजज्जनोऽखिलः ।। ४१६ ॥ सत्कृत्य व्यसृजत् सर्वान् जितशत्रुर्महीपतीन् । रममाणः प्रीतिमत्या तत्रास्थाच्चापराजितः ।। ४१७ ।। जितशत्रुनृपामात्यः कन्यां रुपवतीं निजाम् । ददौ विमलबोधाय सोऽपि रेमे तया सह ।। ४१८ ॥ अन्येधुराययौ तत्र दूतः श्रीहरिणन्दिनः । ददृशे च कुमारेण परिरेभे च संभ्रमात् ।। ४१९ ।। कुशलं तातपादानामंबायाश्चेति तेन सः । पृष्टो दूतो जगादैवमश्रुपूर्णविलोचनः ॥ ४२० ॥ शरीरधारणामात्रं कुशलं केवलं तयोः । त्वत्प्रवासदिनादेव तौ ह्यनुद्वानलोचनौ ।। ४२१ ।। श्रुत्वा श्रुत्वा जनश्रुत्या त्वच्चरित्रं नवं नवम् । प्रमोदेते क्षणं तौ त्वद्वियोगेन च मूर्छतः ।। ४२२ ।। १ अधिककोपवान् । २ भगिनीपुत्र । लज्जिताः ।
पूर्वभवचरिते | पञ्चमोऽपराजितभवः ।
||३३ ॥