________________
त्रिषष्टिशलाकापुरुषचरिते
॥३२॥
1
इयन्त एव राजानो मत्पुत्र्या एषु वोचितः । नरो न कोऽपि हीनोऽन्यो भावी चेत्का गतिस्तदा ।। ३९७ ॥ तन्मंत्र्यूचे च भावज्ञो विषादेन कृतं प्रभो । प्रकृष्टेभ्यः प्रकृष्टाः स्युर्बहुरत्ना हि भूरियम् ।। ३९८ ।। राजा वा राजपुत्रो वा परो वा य इमां जयेत् । स एव हि वरोऽमुष्या घोषणा कार्यतामियम् ॥ ३९९ ।। साधु साध्विति जल्पंश्च तथैवाकारयन्नृपः । आकर्ण्य घोषणां तां च दध्यावित्यपराजितः । ४०० ॥ स्त्रिया सह विवादे स्यान्नोत्कर्षो विजयेऽपि हि । पुंस्पक्षो विजितः सर्वोऽप्यविवादे भवेत्पुनः ।। ४०१ ।। तदुत्कर्षोऽस्तु मा वास्तु जेतव्या सर्वथाप्यसौ । विमृश्येति कुमारो द्राक् प्रीतिमत्याः पुरोऽभवत् ॥ ४०२ ॥ अभ्रच्छन्नमिवादित्यं दुर्वेषमपि वीक्ष्य तम् । प्राग्जन्मस्नेहसंबंधात् प्रीतिं प्रीतिमती दधौ ॥। ४०३ ।। पूर्वपक्षं प्रीतिमती प्राग्जग्राह तथैव हि । तां द्राग्निरुत्तरीकृत्य पराजिग्येऽपराजितः ॥ ४०४ ॥ स्वयंवरस्रजं सद्यः सा चिक्षेपापराजिते । चुकुपुश्चः नृपास्तस्मै भूचराः खेचराश्च ते ।। ४०५ ।। क एष वाचा वातूलस्तूलवल्लाघवास्पदम् । इमां कार्पटिकोऽस्मासु सत्सूद्वोढेति भाषिणः ।। ४०६ ॥ नृपाः संवर्मयामासुः समं सादिनिषादिभिः । उदस्तशस्त्राः संग्रामं संरंभादारभन्त च ।। ४०७ ॥ कुमारोऽपि समुत्पत्य हत्वा कंचिन्निषादिनम् । तद्गजस्थोऽपि युयुधे तदस्त्रैः शारिवर्तिभिः ॥ ४०८ ॥ क्षणाच्च रथिनं हत्वा प्राहरत्तद्रथस्थितः । क्षणाद्भुमौ क्षणाद्भूयोऽपीभस्थः स युधं व्यधात् ।। ४०९ ।। १ सृतम् । २ पुंसां पुरुषाणां पक्षः समूहः । ३ दीनः । ४ शारिर्गजकवचं तत्र वर्तिभिः ।
अष्टमं पर्व
प्रथमः सर्ग: श्रीअरिष्टनेमिजिन
चरितम् ।
पूर्वभवचरिते
पञ्चमो
ऽपराजितभवः ।
॥ ३२ ॥