________________
त्रिषष्टिशलाका
पुरुषचरिते ॥३१ ॥
ऊचे च मालतीनामांगुल्या निर्दिशति सखी । भूचराः खेचराश्चामी गुणिमन्या इहाययुः || ३८४ ॥ असौ कदंबदेशस्य राजा भुवनविश्रुतः । वीरो भुवनचंद्राख्यः पूर्वदिग्मुखमंडनम् ॥ ३८५ ॥ प्रकृत्या दक्षिणश्चायं दक्षिणाशाविशेषकः । नामतः समरकेतुर्मीनकेतुर्वपुः श्रिया ॥ ३८६ ॥ उत्तराशाकुबेरोऽयं कुबेर इति नामतः । वैरिनारीजनाश्रान्तः स्फीतकीर्तिलतावनः ।। ३८७ ॥ अयं सोमप्रभः कीर्त्या जितसोमप्रभो नृपः । अन्येऽपि धवलशूरभीमाद्या पार्थिवा अमी ॥ ३८८ ॥ अयं च खेचराधीशो मणिचूडो महाभुजः । रत्नचूडस्त्वसावेष महाबाहुर्मणिप्रभः ॥ ३८९ ॥ एते च सुमनः सोमसूराद्याः खेचरेश्वराः । तदीक्षस्व परीक्षस्व सर्वेऽप्येते कलाविदः ।। ३९० ।। तयेत्युक्ता प्रीतिमती यं यमैक्षिष्ट चक्षुषा । तयादिष्ट इवानंगस्तं तं बाणैरताडयत् ॥ ३९१ ।। मधुमत्तान्यपुष्टास्त्रीस्वरमालंब्य साकरोत् । विचारं पूर्वपक्षस्था वाग्देवीव विवादिनी ।। ३९२ ।। निहतप्रतिभाः सर्वे भूचराः खेचरा अपि । गले गृहीता इव ते नाशकन् दातुमुत्तरम् ॥ ३९३ ॥ स्त्रीसंबन्धात् पक्षमस्याश्चक्रे वाग्देव्यतो वयम् । अनया निर्जिता नूनं पुरा केनाप्यनिर्जिताः ।। ३९४ ।। इत्यादि विविधं प्रोचुर्विलक्षास्ते परस्परम् । राजानो राजपुत्राश्च त्रपावनमदाननाः ।। ३९५ ।। दध्यौ च जितशत्रुः किं सर्वायासादिमां विधिः । विधाय खिन्न एतस्या नानुरूपं पतिं व्यधात् ॥ ३९६ ॥
१ विशेषकः तिलकः । २ वसन्त उन्मत्तायाऽन्यपुष्यस्त्री कोकिला तस्याः स्वरम् । आशा- दिक्
अष्टमं पर्व
प्रथमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
पूर्वभवचरिते
पञ्चमो
ऽपराजितभवः ।
11 39 11