________________
त्रिषष्टिशलाकापुरुषचरिते
॥३०॥
अष्टम पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
ववृधे सा क्रमेणोपाददे च सकलाः कलाः । आसादयामास चोच्चैर्यौवनं स्मरजीवनम् ॥ ३७१ ।। तस्याश्चातिकलाज्ञाया विज्ञोऽप्यज्ञः पुरोऽभवत् । दृष्टिर्न तस्याः कुत्रापि तदरस्त मनागपि ।। ३७२ ॥ पितापि दध्यौ यद्येतां विदग्धां येन केनचित् । वरेणोद्वाहयिष्यामि प्राणांस्त्यक्ष्यत्यसौ तदा ।। ३७३ ।। ध्यात्वैवं तां रहोऽपृच्छत् पुत्रि कस्ते वरो मतः । साप्यूचे स वरो मेऽस्तु यो विजेता कलासु माम् ।। ३७४ ।। तत्प्रत्यपादि राजापि सा प्रतिज्ञा च पप्रथे । राजानो राजपुत्राश्च कलाभ्यासं भृशं व्यधुः ।। ३७५ ।। जितशत्रुर्नृपोऽन्येधुर्बहिर्मचानकारयत् । राज्ञश्च राजपुत्रांश्चाजूहवच्च स्वयंवरे ।। ३७६ ।। भूचराः खेचराश्चेयुः कुमारैः सह भूभुजः । स्वनन्दनवियोगात विनैकं हरिणन्दिनम् ।। ३७७ ॥ निषेदुस्ते च मंचेषु विमानेष्विव नाकिनः । इतश्च पर्यटन् दैवात्तत्रागादपराजितः ॥३७८ ॥ सोऽवोचद्विमलबोधं समये स्मः समागताः । कलाविचारं तज्ज्ञानां द्रक्ष्यामस्तां च कन्यकाम् ।। ३७९ ॥ मा नः परिचितोऽज्ञासीदिति तेन सहैव सः । गुटिकायाः प्रयोगेण प्राकृतं रुपमादधे ।। ३८० ।। तावुभौ जग्मतुस्तत्र स्वयंवरणमंडपे । क्रीडया विकृताकारधारिणौ त्रिदशाविव ।। ३८१ ।। अनर्घ्यनेपथ्यधरा धरामिव गतामरी । चामराभ्यां वीज्यमाना सखीदासीजनावृता ।। ३८२ ।। आत्मरक्षाप्रतीहारोत्सार्यमाणपुरोजना । देवी लक्ष्मीरपरेव तत्रागात् प्रीतिमत्यथ ॥ ३८३ ।। युग्मम् ।।
पूर्वभवचरिते पञ्चमोऽपराजितभवः ।
॥३०॥
१ अरमत-रक्ता बभूव । २ चतुराम् । ३ सर्वसाधारणम् । ४ अमूल्यवेषधरा ।