________________
त्रिषष्टिशलाकापुरुषचरिते
॥२९॥
मणिप्रक्षालनजलं स भूपतिमपाययत् । मूलिकां तज्जलैर्घृष्ट्वा नृपघाते न्यधत्त च ।। ३५७ ।। सज्जांगो भूपतिश्चाभूद्राजपुत्रमुवाच च । कुतोऽकारणबन्धुस्त्वमिहायासीः कृपानिधे ।। ३५८ ।। शशंस मंत्रिसूः सर्वं राजा भूयोऽप्यभाषत । पुत्रोऽयं मद्वयस्यस्य भूपतेर्हरिणंदिनः ।। ३५९ ।। अहो प्रमादो नाबोधं यद्भ्रातुः पुत्रमप्यमुम् । यद्वा प्रमादस्य फलं प्रहारोऽप्येष मेऽभवत् ।। ३६० ॥ इत्युक्त्वा कन्यकांरंभां रुपार्द्रभामिवापराम् । उपरोध्य ददौ तस्मै गुणक्रीतो नरेश्वरः ।। ३६१ ॥ रममाणस्तया कालं कंचिदप्यतिवाह्य सः । पूर्ववन्निर्ययौ राजपुत्रो मंत्रिसुतान्वितः ।। ३६२ ॥ पुरे कुंडपुरेऽगाच्च तत्रोद्याने महामुनिम् । दिव्यस्वर्णांबुजासीनं स केवलिनमैक्षत ॥ ३६३ ।। तं त्रिः प्रदक्षिणीकृत्य नमस्कृत्य निषद्य च । शुश्राव देशनां तस्माच्छ्रुत्योः पीयूषवर्षिणीम् ॥ ३६४ ॥ शान्ते तु तं नत्वा पप्रच्छेत्यपराजितः । किं भव्योऽहमुताभव्य आचख्यौ चेति केवली ।। ३६५ ॥ भव्योऽसि भविता चार्हन् द्वाविंशः पंचमे भवे । त्वन्मित्रं गणभृच्चायं जंबूद्वीपस्य भारते ।। ३६६ ।। श्रुत्वेति मुमुदाते तौ सेवमानौ च तं मुनिम् । धर्मस्थौ तस्थतुः सुस्थौ तत्र कत्यपि वासरान् ।। ३६७ ।। गते विहर्तुमन्यत्र मुनौ तत्र तु तावपि । स्थाने स्थाने च चैत्यानि वन्दमानौ विचेरतुः ।। ३६८ ।। इतश्चासीज्जनानन्दे जितशत्रुर्नृपः पुरे । तस्यासीन्महिषी नाम्ना धारिणी शीलधारिणी ।। ३६९ ।। स्वर्गाच्च्युत्वा रत्नवती तस्याः कुक्षाववातरत् । पूर्णे च काले सासूत नाम्ना प्रीतिमतीं सुताम् ॥ ३७० ।।
अष्टमं पर्व
प्रथमः
सर्गः
श्री अरिष्टनेमिजिनचरितम् ।
पूर्वभवचरिते
पञ्चमोऽपराजितभवः ।
1138 11