________________
त्रिषष्टिशलाकापुरुषचरिते ॥२८॥
| अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
इत्युक्त्या मुदितस्ताभ्यां सह मंत्रिसुतो ययौ । सद्योऽभ्यर्णे कुमारस्य प्रमोद इव मूर्तिमान् ।।३४४ ।। उपयेमे कुमार्यो ते कुमारोऽपि शुभेऽहनि । कालं कचिदपि स्थित्वा निर्जगाम च पूर्ववत् ।। ३४५ ॥ श्रीमन्दिरे प्रापतुश्च पुरे तत्र च तस्थतुः । सूरकान्तदत्तमणिपूर्यमाणेप्सितौ सदा ॥३४६ ॥ तस्मिन्पुरेऽन्यदोत्तस्थावतुलस्तुमुलध्वनिः । अदृश्यन्त भ्रमन्तश्च सन्नद्धोदायुधा भटाः ।। ३४७ ।। किमेतदिति पृष्टश्च राजपुत्रेण मंत्रिसूः । ज्ञात्वा लोकाच्छशंसैवमत्र राजास्ति सुप्रभः ॥३४८ ।। स प्रविश्यैकेन पुंसा हतश्छुरिकया च्छलात् । राज्ञो राज्यधरश्चास्य पुत्रादिर्नास्ति कोऽपि हि ।।३४९ ।। आत्मरक्षी भवन्नद्य तेनायमखिले पुरे । भ्राम्यति व्याकुलो लोकस्तस्यायं तुमुलो महान् ।। ३५० ।। दुःक्षत्रियेण केनापि धिगयं घातितो द्विषा । इत्युक्त्वा करुणाम्लानमुखोऽस्थादपराजितः ॥३५१ ॥ आरोहति प्रहारे तु राज्ञः संरोहणैरपि । प्रधानगणिकाकामलताख्यद्राजमंत्रिणाम् ।।३५२ ।। वैदेशिकः पुमानात्मद्वितीयोऽत्रास्ति पत्तने । उदारो धार्मिकः सत्यो मूर्त्या कश्चिदिवामरः ॥३५३ ।। सर्वसंपद्यमानार्थो निर्व्यापारोऽप्यसौ यतः । महाप्रभावस्तदिह संभाव्यं किंचिदौषधम् ॥३५४ ॥ निन्युश्च मंत्रिणोऽभ्यर्थ्य कुमारमुपपार्थिवम् । राजा तद्दर्शनेनापि सुस्थंमन्यो बभूव सः ।। ३५५ ।। कृपावानाजपुत्रः प्रागपि घातं विलोक्य तु । कृपाभागधिकं मित्रादाददे मणिमूलिके ।।३५६ ।। १ आत्मानं सुस्थं मन्यते इति ।
| पूर्वभवचरिते | पञ्चमोऽपराजितभवः ।
॥२८॥