________________
त्रिषष्टिशलाकापुरुषचरिते
॥२७॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
| पूर्वमवचरिते
विमृश्येति कुमारस्यान्वेषणाय प्रतिद्रुमम् । बभ्रामानीक्षमाणस्तं मूर्छितश्चापतद्भुवि ।। ३३० ॥ लब्धसंज्ञः समुत्थाय सोऽरोदीत्करुणस्वरम् । कुमार दर्शयात्मानं किं खेदयसि मां मुधा ।।३३१ ।। नापकर्तुं प्रहर्तुं वा त्वामलं कोऽपि मानवः । न तवादर्शने हेतुरमंगलमयः सखे ।। ३३२ ।। एवं विलप्य बहुधा तं गवेषयितुं पुनः । ग्रामादिषु परिभ्राम्यन् सोऽगान्नन्दिपुरं पुरम् ।। ३३३ ।। मंत्रिसूर्बहिरुद्याने यावदस्थाच्च दुर्मनाः । उभौ विद्याधरौ तावत्तमुपेत्यैवमूचतुः ।। ३३४ ।। विद्याधरेन्द्रो भुवनभानुर्नाम्ना महावने । आस्ते विकृत्य प्रासादं परमर्द्धिर्महाबलः ।। ३३५ ।। तस्य च सूः कमलिनीकुमुदिन्यावुभे सुते । तयोश्च ज्ञानिनाख्यातो वरः प्रियसुहृत्स ते ।। ३३६ ॥ तस्यानयनहेतोश्च स्वामिनावां नियोजितौ । वने तस्मिन्नागताभ्यामावाभ्यां वीक्षितौ युवाम् ।। ३३७ ।। त्वं जलानयनायागाः कुमारं चापराजितम् । हृत्वानयाव भुवनभानोः स्वस्वामिनोऽन्तिके ।। ३३८ ॥ तमभ्युदस्थाद्भुवनभानुर्भानुमिवोदितम् । संभ्रमाच्चासयामास रत्नभद्रासनोत्तमे ॥ ३३९ ।। सत्ययापि गुणस्तुत्या रुपयन्नपराजितम् । पुत्र्योस्तयोर्विवाहार्थे ययाचे खेचरेश्वरः ।।३४० ॥ कुमारस्त्वद्वियोगार्हो न प्रत्युत्तरमप्यदात् । मौनी मुनिरिवास्थाच्च त्वामेव परिचिन्तयन् ॥ ३४१ ।। ततश्च स्वामिनादिष्टौ त्वामानेतुमितस्ततः । विमार्गन्ताविहायातौ दिष्ट्या दृष्टोऽसि संप्रति ॥ ३४२ ।। तदुत्तिष्ठ महाभाग गन्तुं तत्र चल द्रुतम् । कुमारस्य कुमारीभ्यां विवाहस्त्वयि तिष्ठते ।। ३४३ ।।
पञ्चमो
ऽपराजितभवः ।
॥२७॥