________________
त्रिषष्टिशलाकापुरुषचरिते
॥२६॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
नैषा केनाप्युपायेन मामियेष यदा तदा । हृत्वानीता मयाप्यत्र कामांधाः किं न कुर्वते ।। ३१७ ।। अग्निरंगे लगत्वस्याः पूर्यतां स प्रतिश्रवः । इत्यमूं खंडयित्वाहमग्नौ प्रक्षेप्तुमुद्यतः ।। ३१८ ॥ मत्तस्त्वया रक्षितेयं रक्षितोऽहं च दुर्गतः । द्वयोरप्युपकर्तासि शंस कोऽसि महाभुज ।। ३१९ ।। आख्यच्च मंत्रिसूस्तस्मै कुमारस्य कुलादिकम् । मुमुदे रत्नमालापि सद्योऽभीष्टसमागमात् ।। ३२० ॥ पितरौ रत्नमालायाः पृष्ठतश्च प्रधाविनौ । कीर्तिमत्यमृतसेनौ तदानीं तत्र चेयतुः ।। ३२१ ।। पृष्टश्चाख्यन्मंत्रिपुत्रो यथावृत्तं तयोरपि । त्राताभूत्परिणेतैवेत्यमोदेतामुभावपि ।। ३२२ ।। ताभ्यां दत्तां रत्नमालामुपयेमेऽपराजितः । तयोरेव गिरा दत्तं सूरकान्ताय चाभयम् ।। ३२३ ।। कुमारे निःस्पृहे सूरकान्तस्ते मणिमूलिके । आर्पयन्मंत्रिपुत्रस्य गुटिकाश्चान्यवेषदाः ।। ३२४ ।। आनेतव्या स्वपुत्रीयं निजस्थाने गतस्य मे । इत्युदीर्यामृतसेनं प्राचालीदपराजितः ।। ३२५ ।। समं पुत्र्यामृतसेनः सूरकान्तश्च खेचरः । स्वं स्वं प्रययतुः स्थानं स्मरन्तावपराजितम् ।। ३२६ ।। कुमारोऽप्यग्रतो गच्छन्नटव्यां विधुरस्तृषा । उपाविशच्चूततले मंत्रिपुत्रोऽम्भसे त्वगात् ।। ३२७ ॥ दूरे गत्वा गृहीत्वांभो यावदागादमात्यसूः । तस्मिश्चूततले तावन्नापश्यदपराजितम् ।। ३२८ ।। दध्यौ च नेदं तत्स्थानं भ्रान्त्यान्यत्र किमागमम् । किं वा कुमारोऽतितृषा स्वयमप्यंभसे ययौ ।। ३२९ ।। १ प्रतिज्ञा । २ जलमानेतुं ।
पूर्वभवचरिते पञ्चमोऽपराजितभवः ।
॥२६॥