________________
त्रिषष्टिशलाका
पुरुषचरिते
॥२५॥
अष्टम पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
पूर्वपुण्यप्रभावाच्च देहसामर्थ्यतोऽपि च । कुमारे प्राभवंस्तस्य प्रहारा न मनागपि ।। ३०४ ।। अत्रान्तरे च मार्तण्डो ययावुदयमूर्धनि । मूर्ध्नि चाताडयद्राजपुत्रः खड्गेन खेचरम् ॥ ३०५ ॥ पपात मूर्छितः पृथ्व्यां तेन घातेन खेचरः । कुमारस्पर्द्धयेव स्त्री तां जघान स्मरः शरैः ।। ३०६ ।। भूयः प्रापय्य चैतन्यमुपचारैर्नभश्चरम् । ऊचे कुमारो युध्यस्व सेहोऽसि यदि संप्रति ।। ३०७ ।। विद्याधरोऽप्यभाषिष्ट सुष्ठ्वहं निर्जितस्त्वया । रक्षितः स्त्रीवधात्साधु नरकाच्चापि तद्भवात् ।।३०८ ।। मम वस्त्रांचलग्रन्थौ विद्येते मणिमूलिके । मणेस्तस्यांभसा घृष्टवा मूलिकां देहि मव्रणे ।। ३०९ ॥ तथा चक्रे कुमारेण सज्जांगोऽभूच्च खेचरः । कुमारपृष्टश्चाचख्यावेवं व्यतिकरं निजम् ।।३१० ॥ रथनूपुरनाथस्य विद्याधरपतेरियम् । दुहितामृतसेनस्य रत्नमालेति नामतः ।।३११ ॥ वरोऽस्या ज्ञानिनाचख्ये हरिणदिनृपात्मजः । युवापराजितो नाम गुणरत्नैकसागरः ।।३१२ ।। तत्रैषाप्यनुरक्ताभून्नान्यस्मिन्नकरोन्मनः । मया च वीक्षितान्येधुर्विवाहाय च याचिता ॥३१३ ॥ एषाप्युवाच मत्पाणिं गृह्णीयादपराजितः । दहेद्वा दहनो मेऽङ्गं नापरा काप्यतो गतिः ।। ३१४ ॥ इत्यस्या वचसाकुप्यमहं श्रीषेणनन्दनः । सूरकान्ताभिधानोऽस्याः पाणिग्रहकृताग्रहः ।।३१५ ।। निर्गत्य नगराद्विद्या दुःसाध्या अप्यसाधयम् । भूयोऽपि विविधोपायरमूमर्थितवानहम् ।। ३१६ ।। १ सूर्यः । २ समर्थोऽसिः । ३ वृत्तान्तम् ।
| पूर्वभवचरिते
पञ्चमो|ऽपराजितभवः ।
।।२५ ।।