________________
त्रिषष्टिशलाकापुरुषचरिते
॥२४॥
अष्टमं पर्व प्रथमः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
विसृज्य तस्करं मंत्रिपुत्रोऽप्यन्वपराजितम् । आययौ तस्थतुश्चोभौ सुखं कोसलवेश्मनि ।।२९१ ।। कन्यां कनकमालाख्यां स्वां कोसलमहीपतिः । जातानन्दो हरिणन्दिनन्दनायान्यदा ददौ ।। २९२ ।। दिनानि कत्यपि स्थित्वा मा भूद्विघ्नो गतेरिति । अनाख्यायान्यदा रात्री समित्रोऽपि स निर्ययौ ॥२९३ ॥ व्रजंश्च कालिकादेव्यायतनस्याविदूरतः । हा हा निःपुरुषोर्वीति शुश्राव रुदितं निशि ॥२९४ ।। काप्येषा रोदिति स्त्रीति निश्चित्य स कृपानिधिः । अनुशब्दं ययौ वीरः शब्दापातीव सायकः ।। २९५ ॥ ज्वलितज्वलनाभ्यणे स्त्रियमेकां निषादिनीम् । आकृष्टतीक्ष्णनिस्त्रिशं पुरुषं च ददर्श सः ॥२९६ ॥ विद्याधराधमादस्मात् पातु मां कोऽपि यः पुमान् । इति भूयोऽपि चक्रंद सौनिकान्तच्छगीव सा ।।२९७ ।। आचिक्षेप कुमारस्तमुत्तिष्ठस्व रणाय रे ।अबलायां किमेतत्ते पुरुषाधम पौरुषम् ।।२९८ ॥ त्वय्यप्यस्यामि चेदं मे पौरुषं न त्विति ब्रुवन् । आकृष्टासिरढौकिष्ट समराय स खेचरः ॥२९९ ॥ वंचयमानावन्योऽन्यघातांस्तौ कुशलावुभौ । खड्गाखड्गि चिरं कृत्वाऽयुध्येतां दोर्युधोद्धतौ ॥३०० ॥ दोर्युद्धेऽप्यपराजय्यं मन्यमानोऽपराजितम् । बबन्ध नागपाशेन स विद्याधरकुंजरः ॥३०१ ॥ कुमारस्त्रोटयामास तं पाशमपराजितः । व्यालद्विप इवालानरज्जु कोपेन भूयसा ।। ३०२ ॥ विद्याप्रभावतो विद्याधरः स विविधायुधैः । प्रजहार कुमाराय क्रुद्धोऽसुरकुमारवत् ।। ३०३ ॥ १ निस्त्रिंशः खड्गः ।२ मांसक्रयविक्रयोपजीविनो व्याधस्यान्तिके छगीवाजेव । ३ त्वय्यपि मे पौरुषं किं नास्यामीति काकुः । ४ दुष्टगजः ।
पूर्वमवचरिते पञ्चमो|ऽपराजितभवः ।
॥२४ ।।