________________
त्रिषष्टिशलाकापुरुषचरिते
॥२३॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
पूर्वभवचरिते
एवं कुमारे वदति हत हतेति वादिनः । एयुरारक्षपुरुषा आकृष्टनिशितासयः ।। २७८ ॥ अपयातं युवां पान्थौ मुषिताशेषपत्तनम् । हनिष्यामोऽमुमित्यूचुरारमा दूरतोऽपि ते ॥ २७९ ।। स्मित्वा स्माह कुमारोऽपि शरणं मामुपागतः । शक्रेणापि न शक्योऽसौ हन्तुमन्यैस्तु का कथा ।। २८० ।। क्रुद्धाः प्रजहुरारक्षा यावत्तावदधावत । आकृष्टासिः कुमारस्तान्निघ्नन् द्वीपी मृगानिव ।। २८१ ।। नंष्ट्वा कोसलराजायाचख्युः स्वस्वामिने च ते । राजापि सैन्यं स प्रैषीद्वधैषी चौररक्षिणः ।। २८२ ।। तदप्यनीकं तरसा पराजिग्येऽपराजितः । आययौ च स्वयं राजा वृतः सादिनिषादिभिः ।। २८३ ॥ तस्करं मंत्रिपुत्राय समWथापराजितः । द्रढयित्वा परिकरमभ्यमित्रोऽभवद्युधि ।। २८४ ।। एकस्य दन्तिनो दन्ते पादं न्यस्य स सिंहवत् । आरुह्य कुंभमवधीत् स्कन्धारुढं निषादिनम् ।। २८५ ।। तमेवारुह्य करिणं युयुधे चापराजितः । उपलक्ष्य नृपायैकेनाचख्ये मंत्रिणाथ सः ।।२८६ ।। निषिध्य स्वाज्ञया युद्धात् सैनिकान् कौसलेश्वरः । तमूचे मद्वयस्यस्य सुतोऽसि हरिणदिनः ॥२८७ ।। साधु मन्मित्रपुत्रोऽसि विक्रमेणामुना खलु । विना सिंहकिशोरेण को ह्यलं हंत दन्तिने ।। २८८ ।। स्वगृहात्स्वगृहं दिष्ट्या त्वमायासीमहाभुजः । इत्युक्त्वा परिरेभे स गजस्थस्तं गजस्थितम् ।। २८९ ।। लज्जाविनमदास्याब्जं राजा स्वेभेऽधिरोह्य तम् । निजे निनाय सदने स्वपुत्रमिव वत्सलः ॥२९० ।। १ आकृष्य निशिता तीक्ष्णा असयः खड्गाः यैस्ते । २ वघमिच्छतीति वधेच्छुरित्यर्थः । ३ लज्जया विशेषेण नमत् आस्याब्जं मुखकमलं यस्य सः । ४ स्वहस्तिनि ।
पञ्चमो
ऽपराजितभवः ।
॥२३॥