________________
त्रिषष्टिशलाकापुरुषचरिते
॥२२॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम्.।
पूर्णेच काले सुषुवे सा देवी प्रियदर्शना । पांडुको»व कल्पद्वं तनयं प्रियदर्शिनम् ॥ २६५ ।। अपराजित इत्याख्यां तस्य चक्रे महीपतिः । धात्रीभिबल्यमानश्च स क्रमेण व्यवर्धत ।। २६६ ॥ क्रमात्कलाः स जग्राह यौवनं प्राप च क्रमात् । मूर्त्या मीनध्वजः पुण्यलावण्यजलवारिधिः ।। २६७ ।। सह पांशुक्रीडितश्च सहाध्यायी च वल्लभः । अभूद्विमलबोधाख्यस्तस्यामात्यसुतः सुहृद् ।।२६८ ।। तावन्यदा हयारुढौ क्रीडया जग्मतुर्बहिः । हृत्वाश्वाभ्यां च निन्याते महारण्ये दवीयसि ।। २६९ ॥ तत्राश्वयोः श्रान्तयोस्तौ वृक्षमूलेऽवतेरतुः । ऊचे विमलबोधं च राजपुत्रोऽपराजितः ।। २७०॥ दिष्ट्याश्वाभ्यामपहृतावावामाभ्यां कुतोऽन्यथा । अनेकाश्चर्यपूर्णेयं द्रष्टव्या स्याद्वसुंधरा ।। २७१ ।। गन्तुमापृच्छ्यमानौ हि पितरौ विरहासहौ । विसृजेतां न तौ जातु जातं संप्रति साध्विदम् ।। २७२ ।। आवयोरश्वहृतयोः पित्रोर्दुःखमभूदिदम् । तेनैव विहरिष्यावो विसोढुं पतितं हि तत् ।। २७३ ।। एवमस्त्वित्यभाषिष्ट यावत्स सचिवात्मजः । तावन्ना तत्र कोऽप्यागाद्रक्ष रक्षेत्युदीरयन् ।। २७४ ।। प्रवेपमानसर्वांगमस्थिरीभूतलोचनम् । मा भैषीरिति तं प्रोचे कुमारः शरणागतम् ।। २७५ ॥ कुमारं मंत्रिसूः स्माह न विमृश्यैवमभ्यधाः । अन्यायकारी यद्येष तदा स्यान्न हि शोभनम् ।। २७६ ॥ ऊचेऽपराजितोऽप्युच्चैः क्षत्रधर्मो ह्यसौ सदा । अन्यायी यदि वा न्यायी त्रातव्यः शरणागतः ।। २७७ ॥ १ कामः । २ अतिदूरे । ३ विसोढुमिति पाठान्तरम् । ४ पुरुषः ।
| पूर्वभवचरिते पञ्चमोऽपराजितभवः ।
॥ २२ ॥