________________
त्रिषष्टिशलाकापुरुषचरिते
॥२१॥
| अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अन्यदा तस्य सामंतो मणिचूडो व्यपद्यत । शशिशूरावयुध्येतां राज्यार्थे तत्सुतावथ ॥२५२ ।। तयोविभज्य तद्राज्यं चक्री चित्रगतिर्ददौ । पथि च स्थापयामास धर्मवाग्भिः सुयुक्तिभिः ।।२५३ ॥ तौ तथाप्यन्यदा युध्वा विपेदाते वनेभवत् । श्रुत्वा चित्रगतिस्तच्च दध्याविति महामतिः ।। २५४ ।। विनश्वर्याः श्रियोऽर्थेऽमी धिग्जना मन्दबुद्धयः ।युध्यन्तेऽथ विपद्यन्ते निपतति च दुर्गतौ ॥२५५ ।। श्रिये यथोत्सहन्तेऽमी निरपेक्षा वपुष्यपि । तथोत्सहेरन्मोक्षाय चेत्कि न्यूनं तदा भवेत् ।। २५६ ॥ विमृश्यैवं भवोद्विग्नः सुतं रत्नवतीभवम् । ज्येष्ठं पुरंदरं नाम राज्ये चित्रगतिय॑धात् ॥२५७ ॥ रत्नवत्या कनिष्ठाभ्यां ताभ्यां च स समाददे । व्रतं दमधराचार्यपार्वे चित्रगतिस्ततः ।।२५८ ।। चिरं तप्त्वा विधायान्ते पादपोपगमं च सः । विपद्य कल्पे माहेन्द्रे सुरोऽभूत्परमर्द्धिकः ॥२५९ ।। रत्नवत्यपि तत्रैव कनिष्ठौ तौ च बान्धवौ । संजज्ञिरे सुरवराः प्रीतिभाजः परस्परम् ॥२६०॥ इतश्च प्रत्यग्विदेहे विजये पद्मनामनि । अस्ति सिंहपुरं नाम पुरं सुरपुरोपमम् ।। २६१ ॥ तत्रासीज्जगदानंदी हरिणंदीति भूपतिः । मन्दीकृतान्यतेजस्कोऽधिपतिस्तेजसामिव ॥ २६२ ॥ बभूव महिषी तस्य नामतः प्रियदर्शना । दर्शनेनापि पीयूषस्पन्दिनी कौमुदीव या ।। २६३ ॥ जीवश्चित्रगतेः सोऽथ च्युत्वा माहेन्द्रकल्पतः । कुक्षाववातरत्तस्या महास्वप्नोपसूचितः ।। २६४ ॥ १ सन्मार्गे ।२ वनहस्तिवत् । ३ पट्टराज्ञी ।
पूर्वभवचरिते चित्रगतेर्दीक्षा, स्वर्गगमनं च।
॥२१॥