________________
त्रिषष्टिशलाकापुरुषचरिते
॥२०॥
| अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
रत्नवत्याश्चानुरुपो वरोऽयं ज्ञानिनोदितः । श्लाघ्योऽस्म्यमूभ्यां दुहितृजामातृभ्यां जगत्यपि ।। २३८ ।। देवस्थानेऽत्र संबंधादिकं वक्तुं न युज्यते । चिन्तयित्वेति सपरीवारः स स्वगृहं ययौ ।। २३९ ।। सुमित्रदेवं सत्कृत्य व्यसृजत् खेचरानपि । ततश्चित्रगतिः पित्रा समं निजगृहं ययौ ।। २४० ।। प्रहितोऽनंगसिंहेन मंत्र्येकः सूरचक्रिणम् । प्रणम्य व्याजहारैवमव्याजविनयक्रमः ॥२४१ ।। स्वामिश्चित्रगतिस्तेऽसौ कुमारो मारसंनिभः । अतल्यरुपलावण्यः कस्य चित्रीयते न हि ।। २४२ ।। पुत्री चानंगसिंहस्य रत्नं रत्नवती प्रभो । रत्नेन चित्रगतिना युज्यतां भवदाज्ञया ।। २४३ ॥ द्वयोरपि त्वमीशोऽसि विवाहाय तदेतयोः । अनंगसिंहं मन्यस्व नृसिंह विसृजाद्य माम् ॥ २४४ ॥ सूरोऽप्युचितयोगेच्छुः प्रत्यपद्यत तद्वचः । तयोर्विवाहं चाकार्षीन्महोत्सवपुरःसरम् ।।२४५ ।। तया समं चित्रगतिभैजे वैषयिकं सुखम् । अर्हत्पूजादिकं धर्म चकार च तया सह ।। २४६ ।। धनदेवधनदत्तजीवी च्युत्वा बभूवतुः । मनोगतिचपलगत्याख्यौ तस्यानुजावुभौ ॥ २४७ ॥ ताभ्यां च रत्नवत्या च समं नंदीश्वरादिषु । चक्रे चित्रगतिर्यात्रामतिमात्रां सुरेन्द्रवत् ।। २४८ ।। अर्हतामन्तिके धर्म शुश्राव च समाहितः कलत्रभ्रातृसहितः साधुशुश्रूषणोद्यतः ।। २४९ ॥ तमन्यदा न्यधाद्राज्ये सूरचक्री स्वयं पुनः । उपाददे परिव्रज्यां प्रपेदे च परं पदम् ।। २५० ॥ स साधितानेकविद्यः सूरचक्रीव नूतनः । शशास खेचरपतीन पत्तीकुर्वन्ननेकशः ॥२५१ ॥
पूर्वभवचरिते तृतीयः चित्रगतिविद्याधरभवः।
॥२०॥