________________
त्रिषष्टिशलाकापुरुषचरिते
॥१९॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
पूर्वभवचरिते
अमिलस्तत्र यात्रायां बहवः खेचरेश्वराः । रत्नवत्या समं पुत्र्यानंगसिंहोऽपि चाययौ ।। २२५ ॥ चक्रे चित्रगतिश्चित्रां तत्रार्चा शाश्वतार्हताम् । रोमाञ्चितांगः स्तोत्रं च गिरा भक्तिविचित्रया ।। २२६ ।। ज्ञात्वा चावधिना तत्र सुमित्रः सुर आययौ । तस्योपरि च पुष्पाणि ववर्ष चामरैः सह ।। २२७ ।। हृष्टाश्च तुष्टुवुश्चित्रगतिं सर्वेऽपि खेचराः । अनंगसिंहोऽप्यज्ञासीत्तमेव दुहितुर्वरम् ।। २२८ ।। सुमित्रदेवः प्रत्यक्षीभूय हर्षेण भूयसा । किं मां प्रत्यभिजानासीत्यूचे चित्रगतिं तदा ।। २२९ ।। त्वं महर्द्धिः सुर इति चित्रगत्युदिते सुरः । सुमित्ररुपं चक्रे स स्वोपलक्षणहेतवे ।। २३० ॥ तं चित्रगतिरालिंग्य जगादेति मया ह्ययम् । धर्मः प्राप्तस्त्वत्प्रसादादनवद्यो महामते ।। २३१ ।। सुमित्रोऽप्यब्रवीदेवमियमृद्धिर्मया पि हि । आसेदे त्वत्प्रसादेन तदा जीवितदानतः ।। २३२ ।। प्रत्याख्याननमस्कारविहीनोऽहं तदा मृतः । नाभविष्यं मनुष्योऽपि प्राणयिष्यो न चेद्धि माम् ।। २३३ ।। तयोः कृतज्ञयोरेवं मिथः सुकृतशंसिनोः । श्रीसूरचक्रिप्रमुखा जहषुः खेचरेश्वराः ।। २३४ ।। तत्र चित्रगतिं रुपचरित्राभ्यामनुत्तरम् । प्रेक्षमाणा रत्नवती विविधे मन्मथेषुभिः ।।२३५ ।। स्वपुत्रीं विधुरां प्रेक्ष्यानंगसिंहो व्यचिंतयत् । ज्ञानिनः संवदत्येतत्तत्पूर्वं कथितं वचः ।। २३६ ।। ममासिरत्नं जहेऽसौ पुष्पवृष्टिरिहाभवत् । इहाभवन्मत्सुताया अनुरागश्च तत्क्षणात् ।। २३७ ।। १ नास्त्युत्तरः श्रेष्ठो यस्मात्तम् ।
तृतीयः
चित्रगतिविद्याधरभवः ।
॥ १९ ॥