________________
त्रिषष्टिशलाका
पुरुषचरि
119211
कथं स ज्ञास्यते यद्वा सिद्धायतनवन्दने । ज्ञेयः कुसुमवृष्ट्येति विमृशन् स्वगृहं ययौ ।। २१२ ।। अखंडशीलां तां जामिं सुमित्रपृथिवीपतेः । नीत्वा समर्पयामास कृती चित्रगतिः स्वयम् ॥ २१३ ॥ पुरापि हि भवोद्विग्नः सुमित्र स्वविवेकतः । जातः स्वस्रपहारादिवैधुर्यान्नितरामभूत् ।। २१४ ।। राज्यं न्यस्य सुते गत्वा सुयशोमुनिसन्निधौ । सुमित्रराट् चित्रगतेः समक्षं व्रतमाददे ।। २१५ ।। पुरे चित्रगतिः स्वेऽगात् सुमित्रस्त्वन्तिके गुरोः । किंचिदूनानि पूर्वाणि नवाधीते स्म बुद्धिमान् ॥ २१६ ॥ गुर्वनुज्ञां गृहीत्वैकः सुमित्रो विहरन् गतः । मगधेषु बहिर्ग्रामात् कायोत्सर्गेण तस्थिवान् ।। २१७ ॥ वैमात्रैयो भ्रमन् पद्मस्तत्रायातो ददर्श तम् । सर्वजीवहितं ध्यानस्थितं गिरिमिव स्थिरम् ।। २१८ । आकर्णाकृष्टबाणेन हृदि पद्मो जघान तम् । स्वमातुर्मिलनायेव नरकाभिमुखः कुधीः ।। २१९ ।। धर्मभ्रंशो ममानेन न कृतो निघ्नतापि हि । कर्मच्छेदसखित्वेन प्रत्युतैष हितावहः ।। २२० ।। अस्मिन्मया चापकृतं राज्यं दत्तं न यत्तदा । तत्क्षाम्यत्वेष मे सर्वे क्षाम्यंत्वन्येऽपि जन्तवः ।। २२१ ॥ एवं ध्यायन् कृतप्रत्याख्यानः स्मृतनमस्कृतिः । मृत्वा सुमित्रोऽभूद्ब्रह्मलोके सामानिकः सुरः ।। २२२ ॥ प्रणश्य गच्छन् पद्मोऽपि दष्टः कृष्णाहिना निशि । विपद्य नारको जज्ञे सप्तम्यां नरकावनौ ॥ २२३ ॥ सुमित्रमृत्युना शोकं कृत्वा चित्रगतिश्चिरम् । जगाम सिद्धायतने यात्रां कर्तुं महामतिः ।। २२४ ॥
१ अपरमातुः पुत्रः ।
6
अष्टमं पर्व प्रथमः
सर्गः
श्रीअरिष्टनेमिजिन
चरितम् ।
पूर्वभवचरिते
तृतीयः
चित्रगति
विद्याधरभवः ।
।। १८ ।।