________________
त्रिषष्टि
शलाका
पुरुषचरिते 119 & 11
रौद्रध्यानवती मृत्वा प्रथमे नरके ययौ । ततश्चोद्धृत्य चंडालगृहिणी सा भविष्यति ।। १८५ ।। जाते गर्भे सपल्या च गले कर्त्तिकया हता । तृतीयं नरकं गत्वा तिर्यग्योनौ गमिष्यति ।। १८६ ।। इत्याद्यनन्तसंसारदुःखं सानुभविष्यति । सम्यग्दृष्टेर्भवत्सूनोर्विषदानजपाप्मना ।। १८७ ।। राजोचे भगवन् यस्य कृते सा कृतवत्यदः । सोऽत्र तिष्ठति तत्पुत्रः सैका तु नरकं गता ।। १८८ ।। धिग्धिक् तदेष संसारो रागद्वेषादिदारुणः । आदास्येऽहं परिव्रज्यां तत्परित्यागकारणम् ।। १८९ ।। अथ प्रणम्य राजानं सुमित्र इदमभ्यधात् । धिग्धिङ्मां मातुरीदृक्षकर्मबन्धनिबन्धनम् ।। १९० ।। स्वामिंस्तदनुजानीहि प्रव्रजिष्यामि संप्रति । को वस्तुमिच्छेदीदृक्षे संसारेऽत्यन्तदारुणे ।। १९१ ।। इति ब्रुवाणं तनयं प्रतिषिध्याज्ञया नृपः । राज्ये निवेशयामास स्वयं तु व्रतमाददे ।। १९२ ।। समं केवलिना तेन सुग्रीवर्षिर्ययौ ततः । सहैव चित्रगतिना सुमित्रस्तु निजं पुरम् ।। १९३ ।। भद्रापुत्राय पद्माय ग्रामान् सोऽदत्त कत्यपि । दुर्मतिस्तैस्त्वसंतुष्टो निःसृत्यागात्स कुत्रचित् ।। १९४ ॥ कथंचिदपि चापृच्छ्य सुमित्रं नृपमन्यदा । पित्रोरुत्कंठितोऽगच्छत् पुरे चित्रगतिर्निजे ।। १९५ ।। देवपूजागुरूपास्तितपःस्वाध्यायसंयमैः । स सदा व्यापृतः पित्रोरभूदत्यंतशर्मणे ।। १९६ ।। इतः सुमित्रभगिनीं कलिंगनृपगेहिनीम् । जह्रे रत्नवतीभ्राता कमलोऽनंगसिंहजः ।। १९७ । भगिनीहरणेनाथ सुमित्रं शोकबाधितम् । अज्ञासीत् खेचरमुखात्तदा चित्रगतिः सुहृत् ।। १९८ ।। १ पर्यन्तनाशिद्रव्यम् ।
अष्टमं पर्व प्रथमः
सर्गः
श्री अरिष्टनेमिजिन
चरितम् ।
पूर्वभवचरिते
तृतीयः
चित्रगतिविद्याधरभवः ।
।। १६ ।।