SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१५॥ अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् । सुमित्रोऽप्यब्रवीद्धातः सुयशा नाम केवली । अत्रासन्नप्रदेशेषु विहरन्नस्ति संप्रति ।। १७२ ।। क्रमेण तमिहायातं वन्दित्वा गन्तुमर्हसि । तदागमनकालं तदत्रैव परिपालय ।। १७३ ।। आमेत्युक्त्वा चित्रगतिः क्रीडंस्तेन समं सुखम् । युग्मजात इवानैषीत् कियतोऽपि हि वासरान् ।। १७४ ।। उभौ जग्मतुरन्येधुरुद्यानं तत्र चाययौ । सुयशाः केवलिमुनिः कल्पद्रुरिव जंगमः ।। १७५ ।। स्वर्णाब्जस्थं वृतं देवैश्चिरेप्सितसमागमम् । तौ तं प्रदक्षिणीकृत्य वन्दित्वा च निषेदतुः ।। १७६ ॥ श्रुत्वा सुग्रीवराजोऽपि मुनिमेत्याभ्यवन्दत । चकार देशनां सोऽपि मोहनिद्रादिवामुखम् ।। १७७ ।। देशनान्ते चित्रगतिर्मुनि नत्वेदमब्रवीत् । साध्वहं बोधितो धर्म भगवद्भिः कृपापरैः ॥ १७८ ॥ कुलक्रमागतमपि श्रावकत्वमियच्चिरम् । पुरो निधिमिवाभाग्यो नाज्ञासिषमहं प्रभो ।। १७९ ॥ एषोऽतुल्योपकारी हि सुमित्रो येन मे प्रभो । ईदृग्धर्मोपदेष्टारो युष्मत्पादाः प्रदर्शिता ।। १८० ॥ इत्युदित्वा तस्य मुनेः पुरश्चित्रगतिः सुधीः । गृहिधर्म प्रत्यपादि सम्यक् सम्यक्त्वपूर्वकम् ।। १८१॥ मुनि प्रणम्य सुग्रीवः पप्रच्छ भगवन् क्व सा । महात्मनोऽस्य मत्सूनोर्विषं दत्वा ययाविति ।। १८२ ।। मुनिः शशंस सा नंष्ट्वा गतारण्ये मलिम्लुचैः । भूषणादिकमाच्छिद्य पल्लीभर्तुः समर्पिता ।। १८३ ॥ पल्लीशेन वणिक्पार्श्वे विक्रीता सा ततोऽपि हि । प्रणश्य यान्ती महता परिप्लुष्य दवाग्निना ।। १८४ ॥ १ मोहनिद्रानाशे प्रातःकालसमानाम् । २ चोरैः । ३ दग्धा । | पूर्वभवचरिते तृतीयः चित्रगतिविद्याघरभवः । ॥ १५ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy