________________
त्रिषष्टिशलाकापुरुषचरिते
||१४||
अष्टमं पर्व | प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
नंष्ट्वा च क्वाप्यगाद्भद्रा स्वदोषपरिशंकिता । राजाप्यकार्षीत् पुत्रार्थे जिनार्चा शान्तिकादि च ।। १५९ ।। स्मारं स्मारं सुतगुणान् व्यलपच्च निरन्तरम् । सामन्ता मंत्रिणोऽन्येऽपि निरुपायास्तथैव च ।। १६० ।। अत्रान्तरे चित्रगतिः क्रीडया विचरन् दिवि । विमानेनागतस्तत्रापश्यच्छोकातुरं पुरम् ।। १६१ ।। विषव्यतिकरं तं च ज्ञात्वोत्तीर्य विमानतः । सोऽभ्यर्षिचत्तं कुमारं जलैर्विद्याभिमंत्रितैः ।। १६२ ।। किमेतदिति पृच्छंश्च कुमारः स्फारितेक्षणः । उत्तस्थौ स्वस्थहृदयो मंत्रशक्तेर्हि नावधिः ।। १६३ ॥ राजाख्यात्ते विषं मात्रा वैरिण्या भद्रया ददे । शमितं चामुना वत्स सद्योऽकारणबन्धुना ।। १६४ ॥ कृतांजलिः सुमित्रोऽपि प्रोचे चित्रगति प्रति । परोपकारबुद्ध्यैव मया ज्ञातं कुलं हि वः ।। १६५ ।। तथाप्यनुगृहाण त्वं स्वकुलाख्यानतोऽद्य माम् । महतामन्वयं श्रोतुं कस्य नोत्कंठते मनः ।। १६६ ।। अथ चित्रगतेः पारिपार्श्वकः सचिवात्मजः । सर्वं शशंस वंशादि सर्वेषां श्रुतिशर्मदम् ।। १६७ ।। हृष्टोऽवोचत्सुमित्रस्तं विषदेन विषेण च । ममोपकृतमेवाद्य त्वया योगः कुतोऽन्यथा ।। १६८ ॥ नादा जीवितमात्रं मे किं त्वहं रक्षितोऽस्मि च । प्रत्याख्याननमस्कारहीनमृत्यूत्थदुर्गतेः ॥१६९ ॥ किं प्रत्युपकरोम्येष तवातुल्योपकारिणः । प्रावृषेण्यांबुदस्येव जीवलोकं कृपानिधे ।। १७० ॥ इत्युक्त्वा स्थितवन्तं तं सुमित्रं मित्रतां गतम् । आपप्रच्छे चित्रगतिर्गन्तुं निजपुरं प्रति ।। १७१ ॥ १ कर्णयोः सुखदम् । २ विषदात्रा मात्रेत्यर्थः । ३ प्रत्याख्याननमस्काराभ्यां हीनेन-रहितेन मृत्युना उत्था-प्रादुर्भूता दुर्गतिस्तस्मात् ।
पूर्वभवचरिते तृतीयः चित्रगतिविद्याधरभवः ।
॥१४ ।।