________________
त्रिषष्टिशलाकापुरुषचरिते
||१३||
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अचिरेणापि जग्राह सा कलाः स्त्रीजनोचिताः । यौवनं चासदत्पुण्यममूर्त देहमंडनम् ।। १४७ ।। अस्या योग्यो वरः कः स्यादिति पित्रान्यदा स्वयम् । पृष्टो नैमित्तिकः किंचिच्चिन्तयित्वाब्रवीदिति ।।१४८ ॥ योऽसिरत्नं तवाच्छेत्ता यस्योपरि भविष्यति । सिद्धायतनवंदारोः पुष्पवृष्टिः सुरैः कृता ।। १४९ ।। नरलोकशिरोरत्नं स ते रत्नवतीमिमाम् । परिणेता दुहितरमनुरुपसमागमात् ।। १५० ।।
॥युग्मम् ।। ममापि खड्गरलं य आच्छेत्ता सोऽद्भुतैकभूः । जामाता स्यादिति प्रीतो व्यसृजज्ज्ञानिनं नृपः ।। १५१ ।। इतश्चात्रैव भरते पुरे चक्रपुराभिधे । सुग्रीवनामा राजाभूदनुग्रीवो गुणैरपि ।। १५२ ।। तस्य पल्यां यशस्वत्यां सुमित्रस्तनयोऽभवत् । पद्मनामा तु भद्रायामग्रजावरजौ क्रमात् ।। १५३ ।। सुमित्रस्तत्र गंभीरो विनयी नयवत्सलः । कृतज्ञोऽर्हच्छासनस्थः पद्मस्त्वपरथाभवत् ।। १५४ ।। अस्मिञ्जीवति मत्सूनो राज्यं नैव भवेदिति । अभद्रधीर्ददौ भद्रा सुमित्रायोत्कटं विषम् ।। १५५ ।। विषेण मूर्छितस्तेन सुमित्रो न्यपतद्भुवि । विषवेगाः प्रससृवुर्लहर्य इव वारिधेः ।। १५६ ।।
आगात्तत्र च सुग्रीवः संभ्रमात् सह मंत्रिभिः । अकारयन्मंत्रतंत्रैश्चोपचारमनेकशः ।। १५७ ॥ विषवेगोपशांतिस्तु तस्याभून्न मनागपि । भद्रा ददौ विषमिति प्रवादश्चोत्थितःपुरे ॥१५८ ।। १ आहर्ता । २ सिद्धायतनानि वन्दमानस्य । ३ अद्भुतानामद्वितीय स्थानम् । ४ अनुद्धतः । ५. दुष्टमतिः ।
| पूर्वभवचरिते तृतीयः चित्रगतिविद्याधरभवः।
।।१३ ।।