________________
त्रिषष्टिशलाका
पुरुषचरिते
1193 11
प्रतिबोध्य बहून्राज्ञो दीक्षया चानुगृह्य सः । धनवत्या सहादत्त पर्यन्तेऽनशनं सुधीः ।। १३४ ।। मासान्ते तौ विपद्येोभौ कल्पे सौधर्मनामनि । शक्रसामानिकौ देवावजायेतां महर्द्धिकौ ॥ १३५ ॥ धनबन्धू धनदेवधनदत्तौ तथापरे । अखंडितव्रता मृत्वा सौधर्मे स्वर्गिणोऽभवन् ।। १३६ ।। इतोऽत्र भरते वैताढ्योत्तरश्रेणिभूषण । सूरतेजःपुरे सूर इति खेचरचक्रयभूत् ।। १३७ ।। तस्य विद्युद् घनस्येव विद्युन्मत्यभिधानतः । अतिमात्रं प्रेमपात्रं बभूव सहचारिणी ।। १३८ ।। आयुः प्रपूर्य सौधर्माद्धनजीवश्च्युतोऽथ सः । विद्युन्मत्याः सूरपल्या उदरे समवातरत् ॥ १३९ ॥ पूर्णे च समयेऽसूत देवी विद्युन्मती सुतम् । शुभलक्षणसंपूर्णं पूर्णेन्दुमिव पूर्णिमा ।। १४० ।। पुण्येऽहनि ददौ चित्रगतिरित्यभिधां पिता । तस्य सूनोरनूनेनोत्सवेनानन्ददायिना ।। १४१ ।। वर्धमानः क्रमेणोपाचार्यं स सकलाः कलाः । जग्राह यौवनं चाप पुष्पचाप इवापरः ।। १४२ ।। इतश्चात्रैव वैताढ्ये दक्षिणश्रेणिवर्तिनि । अनंगसिंहो राजाभून्नगरे शिवमन्दिरे ।। १४३ ॥ पत्नी शशिमुखी तस्य नामतोऽभूच्छशिप्रभा । च्युत्वा धनवतीजीवस्तस्याः कुक्षाववातरत् ।। १४४ ॥ समये सुषुवे पुत्र पवित्रांगीं शशिप्रभा । जाता बहूनां पुत्राणां पश्चादत्यन्तवल्लभा ।। १४५ ।। तस्या रत्नवतीत्याख्यां पिता चक्रे शुभेऽहनि । सजलस्थानवल्लीव क्रमेण ववृधे च सा ।। १४६ ।।
१ कामदेवः ।
अष्टमं पर्व प्रथमः
सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
पूर्वभवचरिते
प्रथमो
धनभवः ।
।। १२ ।।