SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ | अष्टमं पर्व | प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥९॥ सर्गः | श्रीअरिष्ट| नेमिजिनचरितम् । पूर्वभवचरिते क्रमुको नागवल्ल्येव तडितेव नवांबुदः । तया नवोढया रेजे धनोऽभिनवयौवनः ॥ ९५ ॥ रत्या स्मर इव स्वैरं धनवत्या समं धनः । रममाणोऽनयत् कालं कमप्येकमुहूर्त्तवत् ।। ९६ ॥ प्रत्यक्ष इव रेवन्तश्चलत्कांचनकुंडलः । स विक्रमयमाणोऽश्वं ययावुद्यानमन्यदा ।। ९७ ॥ चतुर्ज्ञानधरं तत्र पवित्रितवसुन्धरम् । वसुन्धरं नाम मुनि सोऽद्राक्षीद्देशनापरम् । ९८ ॥ स प्रणम्य यथास्थानमुपविश्य च भक्तिभाक् । शुश्राव देशनां तस्मात् कर्णामृतरसायनम् ।। ९९ ॥ आगाच्च विक्रमधनो धारिणी धनवत्यपि । सर्वेऽपि तं मुनि नत्वा शुश्रुवुर्धर्मदेशनाम् ।। १०० ॥ देशनान्ते व्यज्ञपयत्तं विक्रमधनो नृपः । धने गर्भस्थिते माता स्वप्ने चूतद्रुमैक्षत ।। १०१ ।। तस्योत्कृष्टोत्कृष्टफलस्यान्यत्रान्यत्र रोपणम् । भविष्यति नवकृत्व इत्याख्यात्तत्र कोऽपि ना ।। १०२ ।। नववारारोपणस्य कथयार्थ प्रसीद नः । कुमारजन्मनाप्यन्यज्ज्ञातं स्वप्नफलं मया ।। १०३ ।। सम्यग्ज्ञानायोपयुज्य मनसा सोऽपि कुत्रचित् । दूरे स्थितं केवलिनं पृच्छति स्म समाहितः ।। १०४ ।। केवल्यपि हि विज्ञाय तत्प्रश्न केवलश्रिया । अरिष्टनेमिचरितमाख्यन्नवभवात्मकम् ।। १०५ ।। मनोऽवधिभ्यां स मुनित्विाख्यत्ते सुतो धनः । भवेनानेनैष नवोत्कृष्टोत्कृष्टान् भवान् गमी ।। १०६ ।। भवे च नवमेऽरिष्टनेमिर्नाम्नेह भारते । द्वाविंशस्तीर्थकृद्भावी यदुवंशसमुद्भवः ।। १०७ ॥ १ क्रमुको वृक्षविशेषः “सोपारी" इति भाषायाम् । २ रेवन्तः सूर्यपुत्रः । ३ पुरुषः । प्रथमो धनभवः । ॥९ ॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy