________________
त्रिषष्टिशलाकापुरुषचरिते
॥१०॥
| अष्टम पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
श्रुत्वा च तन्मुनिवचः सर्वे मुमुदिरेतराम् । जिनधर्मे च सर्वेषां भावोऽभूद्भद्रकस्तदा ।। १०८ ॥ तं नत्वा विक्रमो वेश्म ययौ सह धनादिभिः । विहारक्रमनिरतः सूरिरप्यन्यतोऽगमत् ।। १०९ ॥ ऋतूचिताभिः क्रीडाभिर्धनवत्या समं धनः । अन्वभूद्विषयसुखं दोगुन्दुक इवामरः ।। ११० ।। सोऽन्यदा मज्जनक्रीडां कर्तुं क्रीडासरस्यगात् । धनवत्या समं पल्या श्रीसपल्येव रुपतः ।। १११ ।। तत्राशोकतरोर्मूले शान्तो रस इवांगवान् । धर्मश्रमतृषाक्रान्तः शुष्कताल्वोष्ठपल्लवः ।। ११२ ।। स्फूटत्पादाब्जरुधिरसिक्तोर्वीको विमूर्छितः । धनवत्या मुनिः कोऽपि पतन् पत्युः प्रदर्शितः ॥ ११३ ।।
॥युग्मम् ।। संभ्रमादभिसृत्योभौ मुनि तमुपचेरतुः । शिशिरैरुपचारैस्तौ चक्रतुश्चाप्तचेतनम् ।। ११४ ।। तं च स्वस्थं प्रणम्योचे धनो धन्योऽस्मि सर्वथा । कल्पद्रुम इवावन्यां मया प्राप्तोऽसि संप्रति ।। ११५ ।। पर्यन्तदेशे वसतामस्माकं त्वादृशैः समम् । संसर्गो दुर्लभश्छायाद्रुमैर्मरुनृणामिव ।। ११६ ॥ पृच्छ्यसे किं तु भगवन्नवस्थेयं कुतोऽभवत् । न चेत्ते जायते खेदो न गोप्यं चास्ति शंस तत् ।। ११७ ॥ सोऽब्रवीद्भववासेन खेदो मे परमार्थतः । खेदस्त्वेष शुभोदर्को विहारक्रमसंभवः ।।११८ ॥ नामतो मुनिचन्द्रोऽहं गुरुगच्छेन संयुतः । पुराचलं विहारेण साधूनां नैकतः स्थितिः ।। ११९ ।। सार्थभ्रष्टोऽन्यदारण्ये दिङ्मोहीतस्ततो भ्रमन् । इहागां क्षुत्तृषाक्रान्तो मूछितश्चापतं भुवि ।। १२० ॥
पूर्वभवचरिते प्रथमो धनभवः ।
॥१०॥