________________
त्रिषष्टिशलाकापुरुषचरिते
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिन
॥८॥
चरितम् ।
गत्वा नत्वा धनवत्यै लेखं हारं च सोऽर्पयन् । ऊचे तुभ्यं धनेनैतौ स्वहस्तलिखितार्पितौ ।। ८२ ।। गृह्णती पाणिपद्धेन हारमिन्दुकरामलम् । प्रस्फोट्य मुद्रां तं लेखं धनवत्यप्यवाचयत् ।। ८३ ॥ यत्प्रमोदयते सूर्यः पद्मिनीकरपीडनात् । सोऽर्थः स्वभावससिद्धो न हि याचामपेक्षते ।। ८४ ।। वाचयित्वेति सा हृष्टा दध्यौ पुलकमालिनी । अन्वज्ञासीन्ममार्थं स श्लोकार्थेनामुना खलु ।। ८५ ॥ अयं हि कंठन्यासाय मुक्ताहारः सुधोज्ज्वलः । तेन स्वदोलताश्लेषसत्यकारो ममार्पितः ।। ८६ ।। एवं विचिन्त्य सा हारं निदधे कंठकन्दले । द्राक् पारितोषिकं दत्वा तं दूतं विससर्ज च ।। ८७ ।। राजाथ तां दिने पुण्ये सहितां वृद्धमंत्रिभिः । प्रजिधायाचलपुरे परमर्द्धिसमन्विताम् ।। ८८ ।। तां यांतीमशिंषन्माता विमला विमलाशया । भूयाः सदा श्वशुरयोर्भक्ता पत्यौ च देववत् ।। ८९ ।। सपत्नीष्वप्यनुकूला दक्षिणा च परिच्छदे । पत्युः प्रसादेऽनुत्सिक्तापमानेऽप्यविकारभाक् ।।९० ।। ।। युग्मम् ।। एवमाद्यनुशिष्याश्रुमुखी सा तां कथंचन । व्यसृजत् पौनरुक्तेन परिरंभ वितन्वती ॥९१ ।। धनवत्पपि तां नत्वाध्यारुह्य शिबिकां वराम् । चचाल सपरीवारा छत्रचामरमंडिता ॥ ९२ ॥ सा क्रमेणाचलपुरे पौरैः साश्चर्यमीक्षिता । साक्षाद्धनकुमारस्य श्रीरिवागात् स्वयंवरा ॥९३ ।। अवात्सीबहिरुद्याने शिबिरं विनिवेश्य सा । ऋद्ध्या महत्या ववृते विवाहश्च शुभेऽहनि ।। ९४ ।। १ पुलकानां रोमाञ्चानां मालास्या अस्तीति तथा ।२ प्राहिणोत् ।३ शिक्षामदात् । ४ दाक्षिण्यवती । ५ परिवारे । ६ अनुद्धता । ७ आलिंगनम् ।
पूर्वभवचरिते प्रथमो धनभवः ।
| ॥८॥