________________
त्रिषष्टिशलाकापुरुषचरिते
॥७॥
अष्टमं पर्व | प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अर्पणीयो धनस्यायं मल्लेख इति भाषिणी । धनवत्यार्पयत्तस्य लिखित्वा पत्रकं स्वयम् ।। ६९ ।। ततः स दूतः प्रययौ पुरेऽचलपुरे द्रुतम् । अन्तरास्थानमासीनमुपतस्थे च विक्रमम् ।। ७० ॥ तमूचे विक्रमः कच्चित् कुशलं सिंहभूपतेः । शीघ्रं भूयस्त्वदागत्या विकल्पैः प्लाव्यते मनः ।। ७१ ।। सोऽप्यूचे कुशलं सिंह इह मां प्राहिणोत्पुनः । सुतां धनवती दातुं त्वत्सुताय धनाय सः ।। ७२ ॥ यथा धनकुमारोऽयं रुपोत्कृष्टस्तथैव सा । अस्तूचितोऽनयोर्योगः स्वर्णमण्योरिवाधुना ।। ७३ ॥ अग्रेऽपि युवयोः स्नेहः संबन्धेनामुना पुनः । विशिष्टो भवताद्वारिसेकेनेव महीरुहः ।।७४ ।। आमेत्युदित्वा नृपतिः सत्कृत्य विससर्ज तम् । जगामोपधनं सोऽपि द्वारपालनिवेदितः ।।७५ ।। नत्वोपविश्य शसित्वा स स्वं चागमकारणम् । प्रैषीदं धनवत्येति जल्पन पत्रकमार्पयत् ।। ७६ ।। तन्मुद्रां धनकुमारः स्फोटयित्वा स्वपाणिना । तत्पत्रं वाचयामास मदनस्येव शासनम् ॥७७ ।। विशेषितश्रीः शरदा यौवनेनेव पद्मिनी । परिम्लानमुखी वांच्छत्यादित्यकरपीडनम् ।। ७८ ।। दध्यौ धनोऽपि काप्येषा तस्याश्छेकोक्तिरद्भुता । स्नेहातिशयमाख्याति मयि चित्तविवर्त्तिनम् ।। ७९ ॥ विमृश्येति स्वहस्तेन लिखित्वा सोऽपि पत्रकम् । धनवत्यै तस्य हस्ते हारेण सममार्पयत् ।। ८० ॥ धनेनापि विसृष्टः सन् स दूतः शीघ्रमाययौ । आख्यच्च विक्रमेणार्थं प्रतिपन्नं महीपतेः ।। ८१ ॥ १ सभामध्ये । २ धनकुमारसमीपम् । ३ विशेषिता श्रीः शोभा यस्याः सा । ४ छेकोक्तिश्चाटुवचनम् । ५ स्वीकृतम्
| पूर्वभवचरिते प्रथमो धनभवः ।
॥ ७
॥