________________
अष्टमं पर्व |प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
॥६॥
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
तां विसृज्य पिता दध्यौ वराहेयं सुता मम । कोऽनुरुपो वरोऽमुष्या भविष्यति महीतले ॥५६ ॥ एवं चिरं चिन्तयतस्तस्य राज्ञः समाययौ । प्राक्प्रेषितो निजो दूतः श्रीविक्रमधनान्नृपात् ।। ५७ ।। राजकार्य स आख्याय स्थितः सन् सिंहभूभुजा । तत्रापश्यः किमाश्चर्यमित्युक्तः सोऽवदत्पुनः ।। ५८ ॥ तदपश्यं न यद्विद्याधरेष्वपि सुरेष्वपि । धनस्य विक्रमधनसूनो रुपं मनोरमम् । ५९ ।। तदैवाचिन्तयं योग्यो धनवत्या वरो ह्ययम् । स्रष्टुः सृष्टिप्रयासोऽस्तु सफलः संगमेनयोः ।। ६० ॥ प्रीतो राजाब्रवीत् साधु स्वयं मत्कार्यचिन्तक । मां कन्यावरचिन्ताब्धिमग्नमुद्धृतवानसि ।।६१ ॥ तद्धनस्य धनवती संप्रदानाय बुद्धिमन् । गच्छाद्य विक्रमधनं प्रार्थयस्व ममाज्ञया ।। ६२ ॥ तदा चंद्रवती नाम धनवत्यनुजा ययौ । पितरं वंदितुं तच्चाौषीत् सर्वं तयोर्वचः ।।६३ ॥ ययौ स दूतः स्वगृहं मुदिता चन्द्रवत्यपि । एत्याचख्यौ धनवत्यै तद्दिष्ट्यालापपूर्वकम् ।। ६४ ।। धनवत्यप्युवाचैवं प्रत्येम्येतद्गिरा न हि । अज्ञानेन वदत्येषा परमार्थं न बुध्यते ।। ६५ ।। स दूतः प्रेषितो मन्ये कार्येणान्येन केनचित् । इयं तु मुग्धा मत्कार्यमवबुद्धवती खलु ॥६६॥ कमलिन्यब्रवीदत्र दूतः सोऽद्यापि तिष्ठति । जानीहि तन्मुखात् को हि दीपे सत्यग्निमीक्षते ॥६७ ॥ इत्युक्त्वा भावविज्ञा सा तत्र तं दूतमानयत् । अश्रौषीत्तन्मुखात्सर्वं हृष्टा धनवती स्वयम् ॥६८ ॥ १ कनीयसी स्वसा । २ विश्वसिमि ।
पूर्वभवचरिते प्रथमो धनभवः ।
॥६
॥