________________
त्रिषष्टिशलाकापुरुषचरिते
॥५॥
अष्टमं पर्व प्रथमः सर्गः |श्रीअरिष्ट| नेमिजिनचरितम् ।
पूर्वभवचरिते
चित्रस्थधनरुपेणाक्षिप्ता धनवती ततः । नाससाद रतिं क्वापि मरालीव मरौ गता ।। ४३ ॥ विदांचकार क्षामांगी न तृष्णां न क्षुधां च सा । निशायामपि नाशेत वनाकृष्टेव वारणी ।। ४४ ॥ स्मारं स्मारं धनरुपं लिखितं कीर्तितं च तत् । शिरःकंपांगुलीनृत्तभ्रूक्षेपान्साकरोन्मुहुः ।। ४५ ।। धनध्यानपरवशा यद्यत्किचिदचेष्टत । जन्मान्तरकृतमिव नास्मरत्तत्तदापि सा ।। ४६ ।। विमुक्तोद्वर्तनस्नानचर्चालंकरणा सती । साहर्निशं धनं दध्यौ योगिनीवेष्टदेवताम् ।। ४७ ।। तामन्यदा कमलिनी पप्रच्छ कमलेक्षणे । केनाधिना व्याधिना वा बाध्यसे यदसादृशी ।। ४८ ।। कृतकृत्रिमकोपा तमूचे धनवती ततः । बाह्यो जन इवैवं त्वं किं पृच्छसि न वेत्सि किम् ।। ४९ ।। द्वितीयं हृदयं मेऽसि जीवितव्यं ममासि वा । न हि त्वं मे सखीमात्रं त्वत्प्रश्नेनास्मि लज्जिता ।। ५० ॥ ऊचे कमलिनी युक्तमुपालब्धास्मि मानिनि । मनःशल्यमहं जाने तवोत्तुंगं मनोरथम् ।। ५१ ॥ धनं कामयसे नूनं तस्मादालेख्यदर्शनात् । यदज्ञयेव पृष्टासि मया तन्नर्ममात्रकम् ।। ५२ ।। स्थानेऽनुरागं ते ज्ञात्वा सचिन्ता तत्प्रभृत्यपि । अपृच्छं ज्ञानिनं किं स्यान्मत्सख्याश्चिन्तितो वरः ।। ५३ ।। भावीति सोऽपि चाचख्यौ दर्शितप्रत्ययः सदा । तद्धीरा भव शीघ्रं ते सेत्स्यत्येव मनोरथः ।। ५४ ।। तयेत्याश्वासिता धैर्यं भेजे धनवती तदा । पितरं वन्दितुं चागाद्दिव्यनेपथ्यधारिणी ।। ५५ ॥ १ हस्तिनी । २ शिरःकंपाश्चांगुलीनृत्तं च भ्रूक्षेपश्च तान् । ३ हास्यमात्रम् ।
प्रथमो
धनभवः ।
।। ५ ।।