________________
त्रिषष्टिशलाका
पुरुषचरिते
| अष्टमं पर्व प्रथमः सर्गः | श्रीअरिष्टनेमिजिनचरितम् ।
॥४॥
रुपेण विस्मिता तेन सा प्रोचे चित्रकृन्नरम् । कस्येदमद्भुतं रुपं सुरासुरनरेष्वहो ।।३१ ॥ यद्वा संभाव्यते नेदं तेषु रुपं कदाचन । स्वकौशलं दर्शयितुं स्वबुद्धयैवालिखः खलु ।। ३२ ।। अनेकजननिर्माणश्रान्तस्य जरतो विधेः । ईग्निर्माणनिष्णत्वं कुतस्तस्य भविष्यति ॥३३ ।। अथोचे चित्रकृत्स्मित्वा नात्र मे चित्रकर्मणि । यथादृष्टलिखनीये मनागपि हि कौशलम् ॥ ३४ ॥ अयं खलु मयालेखि युवा निरुपमाकृतिः । धनोऽचलपुराधीशश्रीविक्रमधनात्मजः ।। ३५ ।। प्रत्यक्ष प्रेक्ष्य यस्तं हि प्रेक्षते चित्रवर्तिनम् । स कूटलेखक इति मां निन्दति मुहर्मुहुः ।।३६ ।। तमदृष्टवती त्वं तु मयापि लिखितं ननु । दृष्ट्वा विस्मयसे मुग्धे कूपमंडूकसन्निभा ।। ३७ ॥ सुरस्त्रियोऽपि मुह्यति दृष्ट्वा तद्रूपमद्भुतम् । मया स्वदृग्विनोदार्थमलेखि तु यथामति ।। ३८ ।। धनवत्यपि तत्रस्था शुश्राव च ददर्श च । मकरध्वजबाणानां गोचरत्वमियाय च ।।३९ ।। कमलिन्याललापैवं ग्विनोदाय साध्विदम् । अलेखीरद्भुतं रुपं तत्कल्पोऽसि विवेक्यसि ॥४० ।। एवमुक्त्वा कमलिनी प्रारेभे गन्तुमग्रतः । तत्कालशून्यहृदया कथंचिद्धनवत्यपि ।। ४१ ।। व्यावृत्तवृन्तपद्माभमुखी पश्चाद्विलोकिनी । पदे पदे प्रस्खलन्ती गृहं धनवती ययौ ।। ४२ ।। १ वृद्धस्य । २ निष्णत्वं प्रवीणत्वं पारंगतत्वं वा ।३ कल्पः कुशलः । ४ व्यावृत्तं निवृत्तं वृन्तं यस्यैतादृशस्य पद्मस्येवामा यस्यैतादृशं मुखं यस्याः सा ।
पूर्वभवचरिते प्रथमो धनभवः ।
॥४॥