SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ अष्टमं पर्व प्रथमः त्रिषष्टिशलाकापुरुषचरिते ॥३॥ सर्ग श्रीअरिष्टनेमिजिनचरितम् । कलाकलापमखिलं कलयामास स क्रमात् । अनंगलीलोपवनं यौवनं प्रत्यपादि च ।। २० ।। इतश्च कुसुमपुरे पुरेऽभूत्पृथिवीपतिः । सिंहः सिंह इवौजस्वी यशस्वी रणकर्मसु ।। २१ ॥ चंद्रलेखेव विमला विमला नाम तस्य तु । प्राणप्रिया महादेवी देवीवाभून्महीचरी ।। २२ ।। तस्यां बहुनां पुत्राणामुपर्यनुपमाकृतिः । कन्या धनवती नाम जज्ञे सिंहमहीपतेः ।। २३ ।। रत्यादिरमणीरुपं जयंती रुपसंपदा । क्रमेण ववृधे साथ कला जग्राह चाखिलाः ।। २४ ॥ अन्यदा कुमुदानन्दे समये समुपस्थिते । सा सखीभिः परिवृता ययावुद्यानमीक्षितुम् ।। २५ ॥ फुल्लसप्तच्छदोद्भ्राम्यभ्रमरोद्गितिबन्धुरे । पञ्चबाणबाणीभूतनवबाणद्रुकोरके ॥२६ ।। उन्मत्तसारसद्वंद्वक्रेकारमुखरीकृते । स्वच्छांबुसरसीक्रीडत्कलहंसकुलाकुले ।। २७ ।। गायदारामिकारम्यैरिक्षुवाटैमनोरमे । तत्रोपवने देवीव स्वच्छन्द विजहार सा ।। २८ ।। ॥त्रिभिर्विशेषकम् ॥ विहरन्ती च सा कञ्चिदशोकस्य तरोस्तले । एक चित्रकरं चित्रपट्टिकापाणिमैक्षत ।। २९ ।। तां चित्रपट्टिकां तस्माद्धनवत्याः सखी बलात् । कमलिन्याददे तत्र नररुपं ददर्श च ।। ३० ।। १ अनंगस्य लीला क्रीडा तस्या उपवनम् । २ बलवान् । ३ कुमुदानामानंदो विकासो यस्मिन् वसन्तर्तावित्यर्थः । ४ विकसितसप्तच्छदवृक्षेऽधिकभ्राम्यतां भ्रमराणां गायनेन बन्धुरं व्याप्तं तस्मिन् । ५ कामदेवस्य बाणीभूता नूतना बाणवृक्षकोरका यस्मिंस्तस्मिन् । ६ गायन्त्य आरामिकस्त्रियस्ताभी रम्यैः । ७ कमलिनी नाम सखी। पूर्वभवचरिते प्रथमो धनभवः । ॥३॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy