________________
त्रिषष्टिशलाकापुरुषचरिते
IR॥
अष्टमं पर्व प्रथमः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तं दिग्भ्यः संपदोऽभ्येयुः सवन्त्य इव सागरम् । प्रादुरासन् कीर्तयश्च ततोऽनेरिव निर्झराः ।। ७ ॥ सधर्मचारिणी तस्य धेरणीव सदा स्थिरा । धारिणी नाम विशदशीलालंकारधारिणी ।। ८ ।। सवाँगरुपसुभगा पुण्यलावण्यशालिनी । सा तस्य भूपतेर्मूर्तिमतीव श्रीरराजत ।।९ ॥ गत्या गिरा च हंसीव पद्मिनीव श्रियः पदम् । भर्तुर्हदि पदं चक्रे सा प्रसून इवालिनी ।। १० ।। सान्यदा यामिनीशेषे चूतं मत्तालिकोकिलम् । उत्पन्नमंजरीपुऑ फलितं स्वप्नमैक्षत ।। ११ ।। तेन पाणिस्थितेनोचे कोऽप्येवं रुपवान् पुमान् । तवांगणे रोप्यतेऽसावध चूतोऽयमुच्चकैः ।। १२ ।। कियत्यपि गते कालेऽन्यत्रान्यत्र निधास्यते । उत्कृष्टोत्कृष्टफलभाग्नववारावधि सौ ॥१३ ।। सा भर्तुराख्यत्तं स्वप्नं सोऽपि तज्ज्ञैर्व्यचारयत् । सूनुः प्रकृष्टस्ते भावीत्याचख्युस्तेऽपि चोन्मुदः ॥ १४ ॥ अन्यत्रान्यत्र चूतस्य नवकृत्वस्तु रोपणम् । न जानीमः केवलं तत्फलं जानाति केवली ।। १५ ।। श्रुत्वा तद्वचनं देवी मुदिता तत्प्रभृत्यपि । बभार गर्भ सा रत्नगर्भेव निधिमुत्तमम् ।। १६ ।। काले च सुषुवे पुत्रं पवित्राकारधारिणम् । धारिण्यर्कमिव प्राची जगतो हर्षकारणम् ।। १७ ॥ सूनोर्जन्मोत्सवो राज्ञा महादानपुरःसरम् । अकारि दिवसे पुण्ये धन इत्यभिधापि च ।। १८ ॥ मातापित्रोः प्रमोदेन सह प्रववृधे धनः । अंकादंकं नीयमानो धात्रीभिरिव पार्थिवैः ।। १९ ॥ १ नद्यः । २ पृथ्वीव । ३ पुष्पे । ४ भ्रमरी । ५ मत्ता अलयो भ्रमराः कोकिलाश्च यस्मिस्तम् । ६ पृथ्वीव ।
पूर्वभवचरिते प्रथमो धनभवः ।
॥२
॥