________________
त्रिषष्टिशलाकापुरुषचरिते
॥१॥
अष्टमं पर्व प्रथमः
[ प्रथमः सर्गः ।
सर्गः
श्रीअरिष्टनेमिजिनचरितम् ।
| पूर्वभव
चरिते
ॐ नमो विश्वनाथाय जन्मतो ब्रह्मचारिणे । कर्मवल्लीवनच्छेदनेमयेऽरिष्टनेमये ।। १ ।। श्रीनेमेरर्हतः कृष्णविष्णो रामस्य सीरिणः । जरासिन्धुप्रतिहरेश्चरितं कीर्तयिष्यते ॥२॥ जंबुद्वीपे द्वीपेऽत्रैव क्षेत्रेऽत्रैवास्ति भारते । अचलायाः शिरोरलं नाम्नाचलपुरं पुरम् ।। ३ ।। तत्राभूद्विक्रमधनाभिधानो वैसुधाधवः । यथार्थनामा समरे विक्रमाक्रान्तशात्रवः ।। ४ ।। कृतान्त इव दुष्प्रेक्ष्योऽसुहृदां सुहृदां पुनः । स नेत्रानंदजननो निशाकर इवाभवत् ।। ५ ।। कल्पद्रुमः प्रणयिनां वज्रदंडश्च वैरिणाम् । चकासामास तस्योच्चैर्दोदडश्चंडतेजसः ॥ ६ ॥ १ नेमिश्चक्रधारा । २ पृथ्वीपतिः । ३ विक्रमेणाक्रांतः शत्रुसमूहः शत्रुबलं वा येन सः । ४ हस्तः ।
प्रथमो
धनभवः ।
||॥१
॥