________________
पृष्ठ क्र.
॥४०॥
HASASRRISHRASARSHASHASHASRANSK
सुभाषितम् । मायया किं न साध्यते ? निम्नानां छद्मबाह्य कुतो जयः ? अनुरुपवरप्राप्त्यै स्त्रीणां नाऽन्यो मनोरथः । हंत प्रहारिणि हरौ हरिणानां कुतः स्थितिः ? स्वामिभक्तिप्रभावो हि भृत्यानां कवचायते । अज्ञाता अति पूज्यन्ते महान्तो मूर्तिदर्शनात् । बुद्धिः कर्मानुसारिणी । नाऽन्यथा हि मुनेर्गिरः । भोगी हि भाजनं स्त्रीणां सरितामिव सागरः । नात्ति शाकिन्यपि समर्पितं । राजहंसो हि गृणाति विभज्य क्षीरमम्भसः । उपक्रमेत को नाम स्वतः सिद्धे प्रयोजने ? कुतः कृतनिदानानां बोधिबीजसमागमः ? कालदृष्टाहिना दष्टे कियत्तिष्ठन्ति मान्त्रिकाः ? आपो नार्यश्च नीचगा। गतयो भिन्नमार्गा हि कर्माधीनाः शरीरिणाम् । पशुवत्पशुपाला हि न विमृश्य विधायिनः । नाऽऽज्ञा लंघ्या विधेः खलु ।
॥४०॥