SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ पृष्ठ क्र. ॥३९॥ सुभाषितम् । विषयेच्छा बलीयसी । आधिपत्यं हि प्रायोऽन्धंकरणं नृणाम् । दुराणीन्द्रियाणि हि । अहो सर्वकषः स्मरः । सत्यो हि विरलाः स्त्रियः । पोषकस्यापि नात्मीयो मार्जार इव दुर्जनः । तिरश्चोऽपि हि रक्षन्ति पुत्रान् प्राणानिवात्मनः । धीमद्भ्यः को न शंकते ? | कुतो निद्रा महात्मनाम् ?। प्रायस्तेजोऽनुमानेन जायन्ते प्रतिपत्तयः । भोगिनामुपतिष्ठन्ते भोगाः काममचिन्तिताः । एकत्रावस्थानं सद्विषां कुतः । समये खलु पौरुषम् । तापसा ह्यतिथिप्रियाः । प्रमाणमन्तःकरणं अविज्ञातेऽपि वस्तुनि । अन्यथा चिन्तितं कार्य दैवं घटयतेऽन्यथा । आकृत्यैव हि तत्सर्वं विदन्ति ननु तद्विदः । नवीभवन्ति दुःखानि संजाते हीष्टदर्शने । ॥३९॥
SR No.009658
Book TitleTrishashti Shakala Purush Charitam Part 5
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages420
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size95 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy