________________
त्रिषष्टिशलाका
पुरुषचरिते
अष्टमं पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
॥३७१॥
इति भ्रातृवचो रामसुरोऽनुष्ठाय भारते । ब्रह्मलोकं पुनरगादुर्मना भ्रातृदुःखतः ॥ ८९ ॥ इतश्च स जरासूनुः पांडवान् समुपास्थितः । आख्याच्च द्वारकादाहादिकं कौस्तुभमर्पयन् ।। ९० ॥ सद्योऽपि शोकमनास्ते रुदन्तो वत्सरावधि । प्रेतकार्याणि कृष्णस्य विदधुः सोदरा इव ।। ९१ ॥ तान् प्रविव्रजिषूज्ञात्वा श्रीनेमिः प्राहिणोन्मुनिम् । धर्मघोष चतुर्ज्ञानं मुनिपञ्चशतीयुतम् ।। ९२ ।। जारेयं न्यस्य ते राज्ये द्रौपद्यादिसमन्विताः । तस्यर्षेः प्राव्रजन् पावें चक्रुः साभिग्रहं तपः ।। ९३ ।। कुन्ताग्रेण प्रदत्तोञ्छं ग्रहीष्यामीत्यभिग्रहम् । जग्राह भीमः स त्वस्य षड्भिर्मासैरपूर्यत ।। ९४ ।। द्वादशांगधरास्ते तु विहरन्तो महीं क्रमात् । प्रचेलुर्नेमिनं नन्तुमुत्काः पञ्चापि पांडवाः ।। ९५ ।। इतश्च मध्यदेशादौ विहृत्य परमेश्वरः । उदीच्यां राजपुरादिपुरेषु व्यहरत् प्रभुः ।। ९६ ॥ शैले हीमति गत्वा च म्लेच्छदेशेष्वनेकशः । विहरन् पार्थिवामात्यप्रभृतीन प्रत्यबोधयत् ।। ९७ ।। आर्यानार्येषु विहृत्य भूयो ह्रीमत्यगाद्विभुः । ततः किरातदेशेषु व्याहार्षीद्विश्वमोहहृत् ।। ९८ ।। उत्तीर्य हीमतः शैलाद्विजहे दक्षिणापथे । भव्यारविन्दखंडानि बोधयन्नंशुमानिव ॥ ९९ ।। आरभ्य केवलादेवं भर्तुर्विहरतोऽभवन् । अष्टादश सहस्राणि श्रमणानां महात्मनाम् ।। १०० ।। चत्वारिंशत्सहस्राणि व्रतिनीनां सुमेधसाम् । चतुर्दशपूर्वभृतां तथा शतचतुष्टयी ।। १०१ ॥ १ उञ्छ भक्तम् । २ सोऽभिग्रहः ।
| पाण्ड द्रौपद्यादीनां दीक्षा।
॥३७१ ॥