________________
त्रिषष्टिशलाका
पुरुषचरिते ॥ ३७० ॥
तं जगाद बलो भ्रातरुक्तं श्रीनेमिना तदा । दुःखान्तं विषयसुखं प्रत्यक्षं तत्तवाधुना ॥ ७६ ॥ त्वां कर्मयंत्रितं स्वर्गे न नेतुमहमीश्वरः । तिष्ठामि सन्निधौ तत्ते मनः प्रीतिकृते हरे ।। ७७ ।। कृष्णोऽप्युवाच हे भ्रातस्तिष्ठतापि त्वयात्र किम् । त्वयि सत्यपि भोक्तव्यं नरकायुरुपार्जितम् ॥ ७८ ॥ नरकादपि दुःखाय यन्ममावस्थयानया । बभूवासुहृदां हर्षो म्लानिश्च सुहृदां तदा ।। ७९ ।। तद्गच्छ भरते चक्रशार्ङ्गशंखगदाधरम् । पीतवस्त्रं तार्क्ष्यकेतुं दर्शयेम विमानगम् ॥ ८० ॥ नीलाम्बरं तालकेतुं लाङ्गलायोग्रधारकम् । दर्शयेः स्वं च सर्वत्र विमानस्थं पदे पदे ।। ८१ ।। यथा ह्यनश्वरौ रामकृष्णौ स्वेच्छाविहारिणौ । इति लोके प्रघोषः स्यात्पूर्वन्यत्कारबाधकः ।। ८२ ।। प्रतिपद्य तथा रामो जगाम भरतावनौ । तथैव कृत्वा ते रुपे दर्शयामास सर्वतः ।। ८३ ।। एवमूचे च भो लोकाः कृत्वा नौ प्रतिमाः शुभाः । प्रकृष्टदेवताबुद्ध्या यूयं पूजयतादरात् ।। ८४ ।। वयमेव यतः सृष्टिस्थितिसंहारकारिणः । वयं दिव इहायामो यामश्च स्वेच्छया दिवम् ॥ ८५ ॥ निर्मिता द्वारकास्माभिः संहृता च यियासुभिः । कर्ता हर्ता च नान्योऽस्ति स्वर्गदा वयमेव च ॥ ८६ ॥ एवं तस्य गिरा लोकः सर्वो ग्रामपुरादिषु । प्रतिमाः कृष्णहलिनोः कारं कारमपूजयत् ॥ ८७ ॥ प्रतिमार्चनकर्तॄणां महान्तमुदयं ददौ । स सुरस्तेन सर्वत्र तद्भक्तोऽभूञ्जनोऽखिलः ॥ ८८ ॥ १ दुःखपरिणामम् । २ श्रीनेमिना मम नरकगमनकथनावसरे ।
अष्टमं पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिन
चरितम् ।
बलदेवस्य
देवीभूय
नरके
कृष्णेन मिलनम् ।
॥ ३७० ॥