________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६९॥
अष्टम पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
न चेद्गृह्णाम्यमूं भिक्षां तदेतस्य हि सङ्गतेः । कृतो मयान्तरायः स्याद्गृह्णाम्येतेन हेतुना ।। ६३ ॥ एवं विचिन्त्य भगवान् कारुण्यक्षीरसागरः । स्वकायनिरपेक्षोऽपि भिक्षां तस्मादुपाददे ।। ६४ ॥ ऊर्ध्वाननो मृगः सोऽपि बाष्पांभःप्लावितेक्षणः । मुनि वनच्छिदं चापि पश्यन्निदमचिन्तयत् ।। ६५ ॥ | अहो कृपानिधिः स्वामी निरपेक्षो वपुष्यपि । अन्वग्रहीद्रथकारं तपसामेक आश्रयः ।। ६६ ।। अहो वनच्छिद्धन्योऽयं जन्म चास्य महाफलम् । येनायं भगवानेवं पानान्नैः प्रतिलभितः ।। ६७ ॥ अहं पुनर्मन्दभाग्यो न तपः कर्तुमीश्वरः । प्रतिलभयितुं नापि धिङ्मा तिर्यक्त्वदूषितम् ।। ६८ ॥ एवं त्रयोऽपि ते यावद्धर्मध्यानपराः स्थिताः । महावाताहतस्तावदर्धच्छिन्नोऽपतत्तरुः ।। ६९ ।। ते त्रयस्तरुणा तेन पतितेन हता मृताः । पद्मोत्तरविमानान्तर्ब्रह्मलोकेऽभवन् सुराः ॥७० ।। व्रतमब्दशतं राम पालयित्वा गतो दिवम् । ददर्शावधिना कृष्णं तृतीयनरके गतम् ॥७१ ॥ शरीरं वैक्रियं कृत्वा भ्रातृस्नेहेन मोहितः । उपकृष्णं ययौ रामः कृष्णमालिंग्य चावदत् ।। ७२ ॥ रामोऽहं भवतो भ्राता त्वां त्रातुं ब्रह्मलोकतः । अत्रायातोऽस्मि किं तुभ्यं करोमि प्रीतये वद ।।७३ ।। स इत्युक्त्वोद्दधे कृष्णं पाणिना सोऽपि पाणितः । शीर्वा पारदवभूमौ पपात च मिमेल च ।।७४ ।। आदावालिङ्गनाज्ज्ञात आख्यायोद्धरणात्ततः । रामः कृष्णेनाभ्युत्थाय नमश्चक्रेऽतिसंभ्रमात् ।।७५ ॥
बलदेवमुनेः स्वर्गगमनम् ।
||३६९ ॥