________________
त्रिषष्टिशलाकापुरुषचरिते ॥३७२॥
अष्टमं पर्व द्वादशः सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
अवधिज्ञानभाजां च शतानि दश पञ्च च । तानि वैक्रियलब्धीनां तानि केवलिनामपि ।। १०२ ।। सहस्रमेकं साधूनां मनः पर्यायशालिनाम् । श्रमणानां शतान्यष्टौ वादलब्धिमतां पुनः ।। १०३ ॥ श्रावकाणां लक्षमेकं नवषष्टिसहस्रयुक् । श्राविकास्त्रिलक्ष्येकोनचत्वारिंशत्सहस्रयुक् ॥ १०४ ॥ एवं परीवारवृतः सुरासुरनृपान्वितः । निर्वाणसमयं ज्ञात्वा ययौ रैवतके प्रभुः ।। १०५ ।। सुरेन्द्रैस्तत्र समवसरणे रचिते व्यधात् । पर्यन्तदेशनां स्वामी विश्वानुग्रहकाम्यया ।। १०६ ॥ तया देशनया वृद्धास्तत्र केऽपि प्रवव्रजुः । केचि जुः श्रावकत्वं भद्रकत्वमथापरे ।। १०७ ।। ततः प्रपेदेऽनशनं पादपोपगमं प्रभु: ।मासिकं सह साधूनां षट्त्रिंशैः पंचभिः शतैः ।। १०८ ।। त्वाष्ट्रे शुचिसिताष्टम्यां शैलेशीध्यानमास्थितः । सायं तैर्मुनिभिः सार्ध नेमिर्निर्वाणमासदत् ।। १०९ ।। अथ प्रद्युम्नशाम्बाद्याः कुमाराः प्रययुः शिवम् । महिष्योऽष्टौ च कृष्णस्य भगवद्धन्धवोऽपि च ॥११० ॥ भूयांसो व्रतिनोऽन्येऽपि वतिन्यश्चापरा अपि । राजीमतीप्रभृतयः प्रययुः पदमव्ययम् ।। १११ ॥ चतुरब्दशतीं गेहे छद्मस्थो वत्सरं पुनः । केवली पञ्चाब्दशतीमित्यायू रथनेमिनः ।। ११२ ।। ईगायुःस्थिती राजीमत्यप्यासीत्तपोधना । कौमारच्छद्मवासित्वकेवलित्वविभागतः ।। ११३ ॥ शिवासमुद्रविजयौ माहेन्द्रं कल्पमीयतुः । दशार्दा अपरेऽपीयुर्देवभूयं महर्द्धिकम् ।। ११४ ॥ १चित्रायां ।
श्रीनेमिनाथनिर्वाणम् ।
।।३७२ ॥