________________
त्रिषष्टिशलाकापुरुषचरिते ॥३६६॥
अष्टमं पर्व द्वादशः |सर्गः श्रीअरिष्टनेमिजिनचरितम् ।
तं प्रत्युवाच देवोऽपि यदा स्कन्धस्थितं तव । जीविष्यति शवं वृक्षः प्ररोक्ष्यति तदा ह्ययम् ।। २४ ।। गोपीभूयामरः सोऽग्रे गोशवास्येषु नूतनाः । दुर्वाः प्रक्षेप्तुमारेभे जीवद्गव्याननेष्विव ।।२५ ।। बलभद्रो बभाषे तमस्थिभूता इमाः कदा । गावो दुर्वाश्चरिष्यन्ति त्वद्दत्ता मूढमानस ।। २६ ।। देवोऽभ्यधाद्यदा ह्येष जीविष्यति तवानुजः । इमा अपि तदा गावश्चरिष्यन्ति तृणान्यहो ॥ २७ ॥ रामोऽपि विममर्शवं किं सत्यं मे मृतोऽनुजः । एकवाक्यतयामी यद्वदन्त्येवं पृथक् पृथक् ।। २८ ।। देवस्तच्चिन्तितं ज्ञात्वा सद्यः सिद्धार्थरुपभृत् । पुरो भूत्वाब्रवीदेष सिद्धार्थः सारथिस्तव ।। २९ ।। तदा प्रव्रजितो मृत्वा देवभूयमगामहम् । त्वां बोधयितुमत्रागामर्थितोऽस्मि पुरा त्वया ।। ३० ।। जराकुमारात् कृष्णस्य वधः प्रोक्तो हि नेमिना । जज्ञे च स तथा नैवान्यथा सर्वज्ञभाषितम् ।।३१ ।। जराकुमारः कृष्णेनाभिज्ञाने निजकौस्तुभम् । अर्पयित्वा प्रेषितोऽगात् पांडवानां निकेतने ।। ३२ ।। बलोऽप्युवाच सिद्धार्थ साध्वहं बोधितस्त्वया । किं करोम्यधुना भ्रातृव्ययव्यसनपीडितः ॥३३ ॥ सिद्धार्थोऽप्यभ्यधाच्छ्रीमन्नेमिभ्रातुर्विवेकिनः । परिव्रज्यां विना नान्यधुज्यतेऽतः परं तव ।।३४ ।। आमेत्युक्त्वा बलस्तेन देवेन सहितस्ततः । कृष्णकायस्य संस्कारमकरोत् सिन्धुसंगमे ।। ३५ ॥ दीक्षां जिघृक्षु रामं च ज्ञात्वा श्रीनेम्यपि द्रुतम् । विद्याधरमृषि प्रैषीदेकमेकः कृपालूषु ।। ३६ ।। १ व्ययो नाशः ।२ कृपालुषु एकोऽद्वितीयः ।
| देवकृतो बलरामप्रतिबोध; दीक्षा च ।
॥३६६ ।।